Thursday, March 13, 2008

श्रीमद्भागवत गीता




हरिः ओं तत् सत्

भगवद्-गीता किंचिद् अधीता
गङ्ग-जल-लव-कणिका पीता
यस्य कथंचिन् मुरारि-समर्चा
क्रियते तस्य यमेन न चर्चा

श्री-वेद-व्यास-प्रणीत-महाभारतान्तर्गता
श्री-श्रीमद्-भगवद्-गीता

नारायणं नमस्कृत्य
नरं चैव नरोत्तमम् ।
देवीं सरस्वतीं व्यासं
ततो जयम् उदीरयेत् ॥
अथ ध्यानम्

ओं पार्थाय प्रतिबोधितां भगवता नारायणेन स्वयं
व्यासेन ग्रथितां पुराण-मुनिना मध्ये-महाभारताम् ।
अद्वैतामृत-वर्षिणीं भगवतीम् अष्टदशाध्यायिनीम्
अम्ब त्वाम् अनुसन्दधामि भगवद्-गीते भव-द्वेषिणीम् ॥१॥
अथ मङ्गलाचरणम्

ओं
वाग्-ईशाद्याः सुमनसः सर्वार्थानाम् उपक्रमे ।
यं नत्वा कृत-कृत्याः स्युस् तं नमामि गजाननम् ॥२॥

नमो’स्तु ते व्यास विशाल-बुद्धे
फुल्लारविन्दायत-पद्म-नेत्रे ।
येन त्वया भारत-तैल-पूर्णः
प्रज्वालितो ज्ञान-मयः प्रदीपः ॥३॥

प्रपन्न-परिजाताय तोत्र-वेत्रैक-पाणये ।
ज्ञान-मुद्राय कृष्णाय गीतामृत-दुहे नमः ॥४॥
सर्वोपनिषदो गावो दोग्धा गोपाल-नन्दनः ।
पार्थो वत्सः सुधीर् भोक्ता दुग्धं गीतामृतं महत् ॥५॥
वसुदेव-सुतं देवं कंस-चाणूर-मर्दनम् ।
देवकी-परमानन्दं कृष्णं वन्दे जगद्-गुरुम् ॥६॥

भीष्म-द्रोण-तटा जयद्रथ-जला गान्धार-नीलोत्पला
शाल्य-ग्राहवता कृपेण वहनी कर्णेन वेलाकुला ।
अश्वत्थाम-विकर्ण-घोर-मकरा दुर्योधनावर्तिनी
सोत्तीर्णा खलु पाण्डवै रण-नदी कैवर्तकः केशवः ॥७॥

पाराशर्य-वचः सरोजम् अमलं गीतार्थ-गन्धोत्कटं
नानाख्यानक-केशरं हरि-कथा-सम्बोधनाबोधितम् ।
लोके सज्जन-षट्पदैर् अहरहः पेपीयमानं मुदा
भूयाद् भारत-पङ्कजं कलि-मल-प्रध्वंसि नः श्रेयसे ॥८॥

मूकं करोति वाचालं पङ्गुं लङ्घायते गिरिम् ।
यत्-कृपा तम् अहं वन्दे परमानन्द-माधवम् ॥९॥

यं ब्रह्मा वरुणेन्द्र-रुद्र-मरुतः स्तुन्वन्ति दिव्यैः स्तवैर्
वेदैः साङ्ग-पद-क्रमोपनिषदैर् गायन्ति यं साम-गाः ।
ध्यानावस्थित-तद्-गतेन मनसा पश्यन्ति यं योगिनो
यस्यान्तं न विदुः सुरासुर-गणा देवाय तस्मै नमः ॥१०॥

—ओ)०(ओ—

(१)
अथ प्रथमो’ध्यायः
अर्जुन-विषाद-योगः

धृतराष्ट्र उवाच
धर्म-क्षेत्रे कुरु-क्षेत्रे समवेता युयुत्सवः ।
मामकाः पाण्डवाश् चैव किम् अकुर्वत संजय ॥१॥

संजय उवाच
दृष्ट्वा तु पाण्डवानीकं व्यूढं दुर्योधनस् तदा ।
आचार्यम् उपसंगम्य राजा वचनम् अब्रवीत् ॥२॥
पश्यैतां पाण्डु-पुत्राणाम् आचार्य महतीं चमूम् ।
व्यूढां द्रुपद-पुत्रेण तव शिष्येण धीमता ॥३॥
अत्र शूरा महेष्वासा भीमार्जुन-समा युधि ।
युयुधानो विराटश् च द्रुपदश् च महारथः ॥४॥
धृष्टकेतुश् चेकितानः काशिराजश् च वीर्यवान् ।
पुरुजित् कुन्तिभोजश् च शैब्यश् च नर-पुंगवः ॥५॥
युधामन्युश् च विक्रान्त उत्तमौजाश् च वीर्यवान् ।
सौभद्रो द्रौपदेयाश् च सर्व एव महा-रथाः ॥६॥
अस्माकं तु विशिष्टा ये तान् निबोध द्विजोत्तम ।
नायका मम सैन्यस्य संज्ञार्थं तान् ब्रवीमि ते ॥७॥
भवान् भीष्मश् च कर्णश् च कृपश् च समितिंजयः ।
अश्वत्थामा विकर्णश् च सौमदत्तिर् जयद्रथः ॥८॥
अन्ये च बहवः शूरा मद्-अर्थे त्यक्त-जीविताः ।
नाना-शस्त्र-प्रहरणाः सर्वे युद्ध-विशारदाः ॥९॥
अपर्याप्तं तद् अस्माकं बलं भीष्माभिरक्षितम् ।
पर्याप्तं त्व् इदम् एतेषां बलं भीमाभिरक्षितम् ॥१०॥
अयनेषु च सर्वेषु यथा-भागम् अवस्थिताः ।
भीष्मम् एवाभिरक्षन्तु भवन्तः सर्व एव हि ॥११॥
तस्य संजनयन् हर्षं कुरु-वृद्धः पितामहः ।
सिंह-नादं विनद्योच्चैः शङ्खं दध्मौ प्रतापवान् ॥१२॥
ततः शङ्खाश् च भेर्यश् च पणवानक-गोमुखाः ।
सहसैवाभ्यहन्यन्त स शब्दस् तुमुलो’भवत् ॥१३॥
ततः श्वेतैर् हयैर् युक्ते महति स्यन्दने स्थितौ ।
माधवः पाण्डवश् चैव दिव्यौ शङ्खौ प्रदध्मतुः ॥१४॥
पाञ्चजन्यं हृषीकेशो देवदत्तं धनंजयः ।
पौण्ड्रं दध्मौ महा-शङ्खं भीम-कर्मा वृकोदरः ॥१५॥
अनन्त-विजयं राजा कुन्ती-पुत्रो युधिष्ठिरः ।
नकुलः सहदेवश् च सुघोष-मणिपुष्पकौ ॥१६॥
काश्यश् च परमेष्वासः शिखण्डी च महा-रथः ।
धृष्टद्युम्नो विराटश् च सात्यकिश् चापराजितः ॥१७॥
द्रुपदो द्रौपदेयाश् च सर्वशः पृथिवी-पते ।
सौभद्रश् च महाबाहुः शङ्खान् दध्मुः पृथक् पृथक् ॥१८॥
स घोषो धार्तराष्ट्राणां हृदयानि व्यदारयत् ।
नभश् च पृथिवीं चैव तुमुलो व्यनुनादयन् ॥१९॥
अथ व्यवस्थितान् दृष्ट्वा धार्तराष्ट्रान् कपि-ध्वजः ।
प्रवृत्ते शस्त्र-संपाते धनुर् उद्यम्य पाण्डवः ॥२०॥
हृषीकेशं तदा वाक्यम् इदम् आह मही-पते ।
सेनयोर् उभयोर् मध्ये रथं स्थापय मे’च्युत ॥२१॥
यावद् एतान् निरीक्षे’हं योद्धु-कामान् अवस्थितान् ।
कैर् मया सह योद्धव्यम् अस्मिन् रण-समुद्यमे ॥२२॥
योत्स्यमानान् अवेक्षे’हं य एते’त्र समागताः ।
धार्तराष्ट्रस्य दुर्बुद्धेर् युद्धे प्रिय-चिकीर्षवः ॥२३॥
एवम् उक्तो हृषीकेशो गुडाकेशेन भारत ।
सेनयोर् उभयोर् मध्ये स्थापयित्वा रथोत्तमम् ॥२४॥
भीष्म-द्रोण-प्रमुखतः सर्वेषां च महीक्षिताम् ।
उवाच पार्थ पश्यैतान् समवेतान् कुरून् इति ॥२५॥
तत्रापश्यत् स्थितान् पार्थः पितॄन् अथ पितामहान् ।
आचार्यान् मातुलान् भ्रातॄन् पुत्रान् पौत्रान् सखींस् तथा ॥२६॥
श्वशुरान् सुहृदश् चैव सेनयोर् उभयोर् अपि ।
तान् समीक्ष्य स कौन्तेयः सर्वान् बन्धून् अवस्थितान् ॥२७॥
कृपया परयाविष्टो विषीदन्न् इदम् अब्रवीत् ।
दृष्ट्वेमं स्वजनं कृष्ण युयुत्सुं समुपस्थितम् ॥२८॥
सीदन्ति मम गात्राणि मुखं च परिशुष्यति ।
वेपथुश् च शरीरे मे रोमहर्षश् च जायते ॥२९॥
गाण्डीवं स्रंसते हस्तात् त्वक् चैव परिदह्यते ।
न च शक्नोम्य् अवस्थातुं भ्रमतीव च मे मनः ॥३०॥
निमित्तानि च पश्यामि विपरीतानि केशव ।
न च श्रेयो’नुपश्यामि हत्वा स्वजनम् आहवे ॥३१॥
न काङ्क्षे विजयं कृष्ण न च राज्यं सुखानि च ।
किं नो राज्येन गोविन्द किं भोगैर् जीवितेन वा ॥३२॥
येषाम् अर्थे काङ्क्षितं नो राज्यं भोगाः सुखानि च ।
त इमे’वस्थिता युद्धे प्राणांस् त्यक्त्वा धनानि च ॥३३॥
आचार्याः पितरः पुत्रास् तथैव च पितामहाः ।
मातुलाः श्वशुराः पौत्राः श्यालाः संबन्धिनस् तथा ॥३४॥
एतान् न हन्तुम् इच्छामि घ्नतो’पि मधुसूदन ।
अपि त्रैलोक्य-राज्यस्य हेतोः किं नु मही-कृते ॥३५॥
निहत्य धार्तराष्ट्रान् नः का प्रीतिः स्याज् जनार्दन ।
पापम् एवाश्रयेद् अस्मान् हत्वैतान् आततायिनः ॥३६॥
तस्मान् नार्हा वयं हन्तुं धार्तराष्ट्रान् स्व-बान्धवान् ।
स्वजनं हि कथं हत्वा सुखिनः स्याम माधव ॥३७॥
यद्य् अप्य् एते न पश्यन्ति लोभोपहत-चेतसः ।
कुल-क्षय-कृतं दोषं मित्र-द्रोहे च पातकम् ॥३८॥
कथं न ज्ञेयम् अस्माभिः पापाद् अस्मान् निवर्तितुम् ।
कुल-क्षय-कृतं दोषं प्रपश्यद्भिर् जनार्दन ॥३९॥
कुल-क्षये प्रणश्यन्ति कुल-धर्माः सनातनाः ।
धर्मे नष्टे कुलं कृत्स्नम् अधर्मो’भिभवत्य् उत ॥४०॥
अधर्माभिभवात् कृष्ण प्रदुष्यन्ति कुल-स्त्रियः ।
स्त्रीषु दुष्टासु वार्ष्णेय जायते वर्ण-संकरः ॥४१॥
संकरो नरकायैव कुल-घ्नानां कुलस्य च ।
पतन्ति पितरो ह्य् एषां लुप्त-पिण्डोदक-क्रियाः ॥४२॥
दोषैर् एतैः कुल-घ्नानां वर्ण-संकर-कारकैः ।
उत्साद्यन्ते जाति-धर्माः कुल-धर्माश् च शाश्वताः ॥४३॥
उत्सन्न-कुल-धर्माणां मनुष्याणां जनार्दन ।
नरके नियतं वासो भवतीत्य् अनुशुश्रुम ॥४४॥
अहो बत महत् पापं कर्तुं व्यवसिता वयम् ।
यद् राज्य-सुख-लोभेन हन्तुं स्वजनम् उद्यताः ॥४५॥
यदि माम् अप्रतीकारम् अशस्त्रं शस्त्र-पाणयः ।
धार्तराष्ट्रा रणे हन्युस् तन् मे क्षेमतरं भवेत् ॥४६॥
एवम् उक्त्वार्जुनः संख्ये रथोपस्थ उपाविशत् ।
विसृज्य सशरं चापं शोक-संविग्न-मानसः ॥४७॥

इति श्री-महाभारते शत-साहस्रयां संहितायां वैयासिक्यां भीष्म-पर्वणि
श्रीमद्-भगवद्-गीतासूपनिषत्सु ब्रह्म-विद्यायां योग-शास्त्रे श्री-कृष्णार्जुन-संवादे
अर्जुन-विषाद-योगो नाम प्रथमो’ध्यायः ॥

—ओ)०(ओ—

(२)
अथ द्वितीयो’ध्यायः
साङ्ख्य-योगः

संजय उवाच
तं तथा कृपयाविष्टम् अश्रु-पूर्णाकुलेक्षणम् ।
विषीदन्तम् इदं वाक्यम् उवाच मधुसूदनः ॥१॥

श्री-भगवान् उवाच
कुतस् त्वा कश्मलम् इदं विषमे समुपस्थितम् ।
अनार्य-जुष्टम् अस्वर्ग्यम् अकीर्ति-करम् अर्जुन ॥२॥
क्लैब्यं मा स्म गमः पार्थ नैतत् त्वय्य् उपपद्यते ।
क्षुद्रं हृदय-दौर्बल्यं त्यक्त्वोत्तिष्ठ परन्तप ॥३॥

अर्जुन उवाच
कथं भीष्मम् अहं संख्ये द्रोणं च मधुसूदन ।
इषुभिः प्रतियोत्स्यामि पूजार्हाव् अरिसूदन ॥४॥
गुरून् अहत्वा हि महानुभावाञ्
श्रेयो भोक्तुं भैक्ष्यम् अपीह लोके ।
हत्वार्थ-कामांस् तु गुरून् इहैव
भुञ्जीय भोगान् रुधिर-प्रदिग्धान् ॥५॥
न चैतद् विद्मः कतरन् नो गरीयो
यद् वा जयेम यदि वा नो जयेयुः ।
यान् एव हत्वा न जिजीविषामस्
ते’वस्थिताः प्रमुखे धार्तराष्ट्राः ॥६॥
कार्पण्य-दोषोपहत-स्वभावः
पृच्छामि त्वां धर्म-संमूढ-चेताः ।
यच् छ्रेयः स्यान् निश्चितं ब्रूहि तन् मे
शिष्यस् ते’हं शाधि मां त्वां प्रपन्नम् ॥७॥
न हि प्रपश्यामि ममापनुद्याद्
यच् छोकम् उच्छोषणम् इन्द्रियाणाम् ।
अवाप्य भूमाव् असपत्नम् ऋद्धं
राज्यं सुराणाम् अपि चाधिपत्यम् ॥८॥

संजय उवाच
एवम् उक्त्वा हृषीकेशं गुडाकेशः परन्तपः ।
न योत्स्य इति गोविन्दम् उक्त्वा तूष्णीं बभूव ह ॥९॥
तम् उवाच हृषीकेशः प्रहसन्न् इव भारत ।
सेनयोर् उभयोर् मध्ये विषीदन्तम् इदं वचः ॥१०॥

श्री-भगवान् उवाच
अशोच्यान् अन्वशोचस् त्वं प्रज्ञा-वादांश् च भाषसे ।
गतासून् अगतासूंश् च नानुशोचन्ति पण्डिताः ॥११॥
न त्व् एवाहं जातु नासं न त्वं नेमे जनाधिपाः ।
न चैव न भविष्यामः सर्वे वयम् अतः परम् ॥१२॥
देहिनो’स्मिन् यथा देहे कौमारं यौवनं जरा ।
तथा देहान्तर-प्राप्तिर् धीरस् तत्र न मुह्यति ॥१३॥
मात्रा-स्पर्शास् तु कौन्तेय शीतोष्ण-सुख-दुःख-दाः ।
आगमापायिनो’नित्यास् तांस् तितिक्षस्व भारत ॥१४॥
यं हि न व्यथयन्त्य् एते पुरुषं पुरुषर्षभ ।
सम-दुःख-सुखं धीरं सो’मृतत्वाय कल्पते ॥१५॥
नासतो विद्यते भावो नाभावो विद्यते सतः ।
उभयोर् अपि दृष्टो’न्तस् त्व् अनयोस् तत्त्वदर्शिभिः ॥१६॥
अविनाशि तु तद् विद्धि येन सर्वम् इदं ततम् ।
विनाशम् अव्ययस्यास्य न कश्चित् कर्तुम् अर्हति ॥१७॥
अन्तवन्त इमे देहा नित्यस्योक्ताः शरीरिणः ।
अनाशिनो’प्रमेयस्य तस्माद् युध्यस्व भारत ॥१८॥
य एनं वेत्ति हन्तारं यश् चैनं मन्यते हतम् ।
उभौ तौ न विजानीतो नायं हन्ति न हन्यते ॥१९॥
न जायते म्रियते वा कदाचिन्
नायं भूत्वा भविता वा न भूयः ।
अजो नित्यः शाश्वतो’यं पुराणो
न हन्यते हन्यमाने शरीरे ॥२०॥
वेदाविनाशिनं नित्यं य एनम् अजम् अव्ययम् ।
कथं स पुरुषः पार्थ कं घातयति हन्ति कम् ॥२१॥
वासांसि जीर्णानि यथा विहाय
नवानि गृह्णाति नरो’पराणि ।
तथा शरीराणि विहाय जीर्णानि
अन्यानि संयाति नवानि देही ॥२२॥
नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः ।
न चैनं क्लेदयन्त्य् आपो न शोषयति मारुतः ॥२३॥
अच्छेद्यो’यम् अदाह्यो’यम् अक्लेद्यो’शोष्य एव च ।
नित्यः सर्व-गतः स्थाणुर् अचलो’यं सनातनः ॥२४॥
अव्यक्तो’यम् अचिन्त्यो’यम् अविकार्यो’यम् उच्यते ।
तस्माद् एवं विदित्वैनं नानुशोचितुम् अर्हसि ॥२५॥
अथ चैनं नित्य-जातं नित्यं वा मन्यसे मृतम् ।
तथापि त्वं महा-बाहो नैवं शोचितुम् अर्हसि ॥२६॥
जातस्य हि ध्रुवो मृत्युर् ध्रुवं जन्म मृतस्य च ।
तस्माद् अपरिहार्ये’र्थे न त्वं शोचितुम् अर्हसि ॥२७॥
अव्यक्तादीनि भूतानि व्यक्त-मध्यानि भारत ।
अव्यक्त-निधनान्य् एव तत्र का परिदेवना ॥२८॥
आश्चर्य-वत् पश्यति कश्चिद् एनम्
आश्चर्य-वद् वदति तथैव चान्यः ।
आश्चर्य-वच् चैनम् अन्यः शृणोति
श्रुत्वाप्य् एनं वेद न चैव कश्चित् ॥२९॥
देही नित्यम् अवध्यो’यं देहे सर्वस्य भारत ।
तस्मात् सर्वाणि भूतानि न त्वं शोचितुम् अर्हसि ॥३०॥
स्व-धर्मम् अपि चावेक्ष्य न विकम्पितुम् अर्हसि ।
धर्म्याद् धि युद्धाच् छ्रेयो’न्यत् क्षत्रियस्य न विद्यते ॥३१॥
यदृच्छया चोपपन्नं स्वर्गद्वारम् अपावृतम् ।
सुखिनः क्षत्रियाः पार्थ लभन्ते युद्धम् ईदृशम् ॥३२॥
अथ चेत् त्वम् इमं धर्म्यं संग्रामं न करिष्यसि ।
ततः स्व-धर्मं कीर्तिं च हित्वा पापम् अवाप्स्यसि ॥३३॥
अकीर्तिं चापि भूतानि कथयिष्यन्ति ते’व्ययाम् ।
संभावितस्य चाकीर्तिर् मरणाद् अतिरिच्यते ॥३४॥
भयाद् रणाद् उपरतं मंस्यन्ते त्वां महा-रथाः ।
येषां च त्वं बहु-मतो भूत्वा यास्यसि लाघवम् ॥३५॥
अवाच्य-वादांश् च बहून् वदिष्यन्ति तवाहिताः ।
निन्दन्तस् तव सामर्थ्यं ततो दुःखतरं नु किम् ॥३६॥
हतो वा प्राप्स्यसि स्वर्गं जित्वा वा भोक्ष्यसे महीम् ।
तस्माद् उत्तिष्ठ कौन्तेय युद्धाय कृत-निश्चयः ॥३७॥
सुख-दुःखे समे कृत्वा लाभालाभौ जयाजयौ ।
ततो युद्धाय युज्यस्व नैवं पापम् अवाप्स्यसि ॥३८॥
एषा ते’भिहिता सांख्ये बुद्धिर् योगे त्व् इमां शृणु ।
बुद्ध्या युक्तो यया पार्थ कर्म-बन्धं प्रहास्यसि ॥३९॥
नेहाभिक्रम-नाशो’स्ति प्रत्यवायो न विद्यते ।
स्वल्पम् अप्य् अस्य धर्मस्य त्रायते महतो भयात् ॥४०॥
व्यवसायात्मिका बुद्धिर् एकेह कुरु-नन्दन ।
बहु-शाखा ह्य् अनन्ताश् च बुद्धयो’व्यवसायिनाम् ॥४१॥
याम् इमां पुष्पितां वाचं प्रवदन्त्य् अविपश्चितः ।
वेद-वाद-रताः पार्थ नान्यद् अस्तीति वादिनः ॥४२॥
कामात्मानः स्वर्ग-परा जन्म-कर्म-फल-प्रदाम् ।
क्रिया-विशेष-बहुलां भोगैश्वर्य-गतिं प्रति ॥४३॥
भोगैश्वर्य-प्रसक्तानां तयापहृत-चेतसाम् ।
व्यवसायात्मिका बुद्धिः समाधौ न विधीयते ॥४४॥
त्रैगुण्य-विषया वेदा निस्त्रैगुण्यो भवार्जुन ।
निर्द्वन्द्वो नित्य-सत्त्व-स्थो निर्योग-क्षेम आत्मवान् ॥४५॥
यावान् अर्थ उदपाने सर्वतः संप्लुतोदके ।
तावान् सर्वेषु वेदेषु ब्राह्मणस्य विजानतः ॥४६॥
कर्मण्य् एवाधिकारस् ते मा फलेषु कदाचन ।
मा कर्म-फल-हेतुर् भूर् मा ते सङ्गो’स्त्व् अकर्मणि ॥४७॥
योग-स्थः कुरु कर्माणि सङ्गं त्यक्त्वा धनंजय ।
सिद्ध्य्-असिद्ध्योः समो भूत्वा समत्वं योग उच्यते ॥४८॥
दूरेण ह्य् अवरं कर्म बुद्धि-योगाद् धनंजय ।
बुद्धौ शरणम् अन्विच्छ कृपणाः फल-हेतवः ॥४९॥
बुद्धि-युक्तो जहातीह उभे सुकृत-दुष्कृते ।
तस्माद् योगाय युज्यस्व योगः कर्मसु कौशलम् ॥५०॥
कर्मजं बुद्धि-युक्ता हि फलं त्यक्त्वा मनीषिणः ।
जन्म-बन्ध-विनिर्मुक्ताः पदं गच्छन्त्य् अनामयम् ॥५१॥
यदा ते मोह-कलिलं बुद्धिर् व्यतितरिष्यति ।
तदा गन्तासि निर्वेदं श्रोतव्यस्य श्रुतस्य च ॥५२॥
श्रुति-विप्रतिपन्ना ते यदा स्थास्यति निश्चला ।
समाधाव् अचला बुद्धिस् तदा योगम् अवाप्स्यसि ॥५३॥

अर्जुन उवाच
स्थित-प्रज्ञस्य का भाषा समाधिस्थस्य केशव ।
स्थित-धीः किं प्रभाषेत किम् आसीत व्रजेत किम् ॥५४॥

श्री-भगवान् उवाच
प्रजहाति यदा कामान् सर्वान् पार्थ मनोगतान् ।
आत्मन्य् एवात्मना तुष्टः स्थित-प्रज्ञस् तदोच्यते ॥५५॥
दुःखेष्व् अनुद्विग्न-मनाः सुखेषु विगत-स्पृहः ।
वीत-राग-भय-क्रोधः स्थितधीर् मुनिर् उच्यते ॥५६॥
यः सर्वत्रानभिस्नेहस् तत् तत् प्राप्य शुभाशुभम् ।
नाभिनन्दति न द्वेष्टि तस्य प्रज्ञा प्रतिष्ठिता ॥५७॥
यदा संहरते चायं कूर्मो’ङ्गानीव सर्वशः ।
इन्द्रियाणीन्द्रियार्थेभ्यस् तस्य प्रज्ञा प्रतिष्ठिता ॥५८॥
विषया विनिवर्तन्ते निराहारस्य देहिनः ।
रस-वर्जं रसो’प्य् अस्य परं दृष्ट्वा निवर्तते ॥५९॥
यततो ह्य् अपि कौन्तेय पुरुषस्य विपश्चितः ।
इन्द्रियाणि प्रमाथीनि हरन्ति प्रसभं मनः ॥६०॥
तानि सर्वाणि संयम्य युक्त आसीत मत्-परः ।
वशे हि यस्येन्द्रियाणि तस्य प्रज्ञा प्रतिष्ठिता ॥६१॥
ध्यायतो विषयान् पुंसः सङ्गस् तेषूपजायते ।
सङ्गात् संजायते कामः कामात् क्रोधो’भिजायते ॥६२॥
क्रोधाद् भवति संमोहः संमोहात् स्मृति-विभ्रमः ।
स्मृति-भ्रंशाद् बुद्धि-नाशो बुद्धि-नाशात् प्रणश्यति ॥६३॥
राग-द्वेष-वियुक्तैस् तु विषयान् इन्द्रियैश् चरन् ।
आत्म-वश्यैर् विधेयात्मा प्रसादम् अधिगच्छति ॥६४॥
प्रसादे सर्व-दुःखानां हानिर् अस्योपजायते ।
प्रसन्न-चेतसो ह्य् आशु बुद्धिः पर्यवतिष्ठते ॥६५॥
नास्ति बुद्धिर् अयुक्तस्य न चायुक्तस्य भावना ।
न चाभावयतः शान्तिर् अशान्तस्य कुतः सुखम् ॥६६॥
इन्द्रियाणां हि चरतां यन् मनो’नुविधीयते ।
तद् अस्य हरति प्रज्ञां वायुर् नावम् इवाम्भसि ॥६७॥
तस्माद् यस्य महा-बाहो निगृहीतानि सर्वशः ।
इन्द्रियाणीन्द्रियार्थेभ्यस् तस्य प्रज्ञा प्रतिष्ठिता ॥६८॥
या निशा सर्व-भूतानां तस्यां जागर्ति संयमी ।
यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः ॥६९॥
आपूर्यमाणम् अचल-प्रतिष्ठं
समुद्रम् आपः प्रविशन्ति यद्वत् ।
तद्वत् कामा यं प्रविशन्ति सर्वे
स शान्तिम् आप्नोति न काम-कामी ॥७०॥
विहाय कामान् यः सर्वान् पुमांश् चरति निःस्पृहः ।
निर्ममो निरहंकारः स शान्तिम् अधिगच्छति ॥७१॥
एषा ब्राह्मी स्थितिः पार्थ नैनां प्राप्य विमुह्यति ।
स्थित्वास्याम् अन्त-काले’पि ब्रह्म-निर्वाणम् ऋच्छति ॥७२॥

इति श्री-महाभारते शत-साहस्रयां संहितायां वैयासिक्यां भीष्म-पर्वणि
श्रीमद्-भगवद्-गीतासूपनिषत्सु ब्रह्म-विद्यायां योग-शास्त्रे श्री-कृष्णार्जुन-संवादे
साङ्ख्य-योगो नाम द्वितीयो’ध्यायः ॥

—ओ)०(ओ—

(३)
अथ तृतीयो’ध्यायः
कर्म-योगः

अर्जुन उवाच
ज्यायसी चेत् कर्मणस् ते मता बुद्धिर् जनार्दन ।
तत् किं कर्मणि घोरे मां नियोजयसि केशव ॥१॥
व्यामिश्रेणैव वाक्येन बुद्धिं मोहयसीव मे ।
तद् एकं वद निश्चित्य येन श्रेयो’हम् आप्नुयाम् ॥२॥

श्री-भगवान् उवाच
लोके’स्मिन् द्विविधा निष्ठा पुरा प्रोक्ता मयानघ ।
ज्ञान-योगेन सांख्यानां कर्म-योगेन योगिनाम् ॥३॥
न कर्मणाम् अनारम्भान् नैष्कर्म्यं पुरुषो’श्नुते ।
न च संन्यसनाद् एव सिद्धिं समधिगच्छति ॥४॥
न हि कश्चित् क्षणम् अपि जातु तिष्ठत्य् अकर्म-कृत् ।
कार्यते ह्य् अवशः कर्म सर्वः प्रकृति-जैर् गुणैः ॥५॥
कर्मेन्द्रियाणि संयम्य य आस्ते मनसा स्मरन् ।
इन्द्रियार्थान् विमूढात्मा मिथ्याचारः स उच्यते ॥६॥
यस् त्व् इन्द्रियाणि मनसा नियम्यारभते’र्जुन ।
कर्मेन्द्रियैः कर्म-योगम् असक्तः स विशिष्यते ॥७॥
नियतं कुरु कर्म त्वं कर्म ज्यायो ह्य् अकर्मणः ।
शरीर-यात्रापि च ते न प्रसिध्येद् अकर्मणः ॥८॥
यज्ञार्थात् कर्मणो’न्यत्र लोको’यं कर्म-बन्धनः ।
तद्-अर्थं कर्म कौन्तेय मुक्त-सङ्गः समाचर ॥९॥
सह-यज्ञाः प्रजाः सृष्ट्वा पुरोवाच प्रजापतिः ।
अनेन प्रसविष्यध्वम् एष वो’स्त्व् इष्ट-काम-धुक् ॥१०॥
देवान् भावयतानेन ते देवा भावयन्तु वः ।
परस्परं भावयन्तः श्रेयः परम् अवाप्स्यथ ॥११॥
इष्टान् भोगान् हि वो देवा दास्यन्ते यज्ञ-भाविताः ।
तैर् दत्तान् अप्रदायैभ्यो यो भुङ्क्ते स्तेन एव सः ॥१२॥
यज्ञ-शिष्टाशिनः सन्तो मुच्यन्ते सर्व-किल्बिषैः ।
भुञ्जते ते त्व् अघं पापा ये पचन्त्य् आत्म-कारणात् ॥१३॥
अन्नाद् भवन्ति भूतानि पर्जन्याद् अन्न-संभवः ।
यज्ञाद् भवति पर्जन्यो यज्ञः कर्म-समुद्भवः ॥१४॥
कर्म ब्रह्मोद्भवं विद्धि ब्रह्माक्षर-समुद्भवम् ।
तस्मात् सर्व-गतं ब्रह्म नित्यं यज्ञे प्रतिष्ठितम् ॥१५॥
एवं प्रवर्तितं चक्रं नानुवर्तयतीह यः ।
अघायुर् इन्द्रियारामो मोघं पार्थ स जीवति ॥१६॥
यस् त्व् आत्म-रतिर् एव स्याद् आत्म-तृप्तश् च मानवः ।
आत्मन्य् एव च संतुष्टस् तस्य कार्यं न विद्यते ॥१७॥
नैव तस्य कृतेनार्थो नाकृतेनेह कश्चन ।
न चास्य सर्व-भूतेषु कश्चिद् अर्थ-व्यपाश्रयः ॥१८॥
तस्माद् असक्तः सततं कार्यं कर्म समाचर ।
असक्तो ह्य् आचरन् कर्म परम् आप्नोति पूरुषः ॥१९॥
कर्मणैव हि संसिद्धिम् आस्थिता जनकादयः ।
लोक-संग्रहम् एवापि संपश्यन् कर्तुम् अर्हसि ॥२०॥
यद् यद् आचरति श्रेष्ठस् तत् तद् एवेतरो जनः ।
स यत् प्रमाणं कुरुते लोकस् तद् अनुवर्तते ॥२१॥
न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किंचन ।
नानवाप्तम् अवाप्तव्यं वर्त एव च कर्मणि ॥२२॥
यदि ह्य् अहं न वर्तेयं जातु कर्मण्य् अतन्द्रितः ।
मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः ॥२३॥
उत्सीदेयुर् इमे लोका न कुर्यां कर्म चेद् अहम् ।
संकरस्य च कर्ता स्याम् उपहन्याम् इमाः प्रजाः ॥२४॥
सक्ताः कर्मण्य् अविद्वांसो यथा कुर्वन्ति भारत ।
कुर्याद् विद्वांस् तथासक्तश् चिकीर्षुर् लोक-संग्रहम् ॥२५॥
न बुद्धि-भेदं जनयेद् अज्ञानां कर्म-सङ्गिनाम् ।
जोषयेत् सर्व-कर्माणि विद्वान् युक्तः समाचरन् ॥२६॥
प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः ।
अहंकार-विमूढात्मा कर्ताहम् इति मन्यते ॥२७॥
तत्त्व-वित् तु महा-बाहो गुण-कर्म-विभागयोः ।
गुणा गुणेषु वर्तन्त इति मत्वा न सज्जते ॥२८॥
प्रकृतेर् गुण-संमूढाः सज्जन्ते गुण-कर्मसु ।
तान् अकृत्स्न-विदो मन्दान् कृत्स्न-विन् न विचालयेत् ॥२९॥
मयि सर्वाणि कर्माणि संन्यस्याध्यात्म-चेतसा ।
निराशीर् निर्ममो भूत्वा युध्यस्व विगत-ज्वरः ॥३०॥
ये मे मतम् इदं नित्यम् अनुतिष्ठन्ति मानवाः ।
श्रद्धावन्तो’नसूयन्तो मुच्यन्ते ते’पि कर्मभिः ॥३१॥
ये त्व् एतद् अभ्यसूयन्तो नानुतिष्ठन्ति मे मतम् ।
सर्व-ज्ञान-विमूढांस् तान् विद्धि नष्टान् अचेतसः ॥३२॥
सदृशं चेष्टते स्वस्याः प्रकृतेर् ज्ञानवान् अपि ।
प्रकृतिं यान्ति भूतानि निग्रहः किं करिष्यति ॥३३॥
इन्द्रियस्येन्द्रियस्यार्थे राग-द्वेषौ व्यवस्थितौ ।
तयोर् न वशम् आगच्छेत् तौ ह्य् अस्य परिपन्थिनौ ॥३४॥
श्रेयान् स्व-धर्मो विगुणः पर-धर्मात् स्वनुष्ठितात् ।
स्व-धर्मे निधनं श्रेयः पर-धर्मो भयावहः ॥३५॥

अर्जुन उवाच
अथ केन प्रयुक्तो’यं पापं चरति पूरुषः ।
अनिच्छन्न् अपि वार्ष्णेय बलाद् इव नियोजितः ॥३६॥

श्री-भगवान् उवाच
काम एष क्रोध एष रजो-गुण-समुद्भवः ।
महाशनो महा-पाप्मा विद्ध्य् एनम् इह वैरिणम् ॥३७॥
धूमेनाव्रियते वह्निर् यथादर्शो मलेन च ।
यथोल्बेनावृतो गर्भस् तथा तेनेदम् आवृतम् ॥३८॥
आवृतं ज्ञानम् एतेन ज्ञानिनो नित्य-वैरिणा ।
काम-रूपेण कौन्तेय दुष्पूरेणानलेन च ॥३९॥
इन्द्रियाणि मनो बुद्धिर् अस्याधिष्ठानम् उच्यते ।
एतैर् विमोहयत्य् एष ज्ञानम् आवृत्य देहिनम् ॥४०॥
तस्मात् त्वम् इन्द्रियाण्य् आदौ नियम्य भरतर्षभ ।
पाप्मानं प्रजहि ह्य् एनं ज्ञान-विज्ञान-नाशनम् ॥४१॥
इन्द्रियाणि पराण्य् आहुर् इन्द्रियेभ्यः परं मनः ।
मनसस् तु परा बुद्धिर् यो बुद्धेः परतस् तु सः ॥४२॥
एवं बुद्धेः परं बुद्ध्वा संस्तभ्यात्मानम् आत्मना ।
जहि शत्रुं महा-बाहो काम-रूपं दुरासदम् ॥४३॥

इति श्री-महाभारते शत-साहस्रयां संहितायां वैयासिक्यां भीष्म-पर्वणि
श्रीमद्-भगवद्-गीतासूपनिषत्सु ब्रह्म-विद्यायां योग-शास्त्रे श्री-कृष्णार्जुन-संवादे
कर्म-योगो नाम तृतीयो’ध्यायः ॥
—ओ)०(ओ—

(४)
अथ चतुर्थो’ध्यायः
ज्ञान-कर्म-सन्न्यास-योगः

श्री-भगवान् उवाच
इमं विवस्वते योगं प्रोक्तवान् अहम् अव्ययम् ।
विवस्वान् मनवे प्राह मनुर् इक्ष्वाकवे’ब्रवीत् ॥१॥
एवं परम्परा-प्राप्तम् इमं राजर्षयो विदुः ।
स कालेनेह महता योगो नष्टः परन्तप ॥२॥
स एवायं मया ते’द्य योगः प्रोक्तः पुरातनः ।
भक्तो’सि मे सखा चेति रहस्यं ह्य् एतद् उत्तमम् ॥३॥

अर्जुन उवाच
अपरं भवतो जन्म परं जन्म विवस्वतः ।
कथम् एतद् विजानीयां त्वम् आदौ प्रोक्तवान् इति ॥४॥

श्री-भगवान् उवाच ।
बहूनि मे व्यतीतानि जन्मानि तव चार्जुन ।
तान्य् अहं वेद सर्वाणि न त्वं वेत्थ परन्तप ॥५॥
अजो’पि सन्न् अव्ययात्मा भूतानाम् ईश्वरो’पि सन् ।
प्रकृतिं स्वाम् अधिष्ठाय संभवाम्य् आत्म-मायया ॥६॥
यदा यदा हि धर्मस्य ग्लानिर् भवति भारत ।
अभ्युत्थानम् अधर्मस्य तदात्मानं सृजाम्य् अहम् ॥७॥
परित्राणाय साधूनां विनाशाय च दुष्कृताम् ।
धर्म-संस्थापनार्थाय संभवामि युगे युगे ॥८॥
जन्म कर्म च मे दिव्यम् एवं यो वेत्ति तत्त्वतः ।
त्यक्त्वा देहं पुनर् जन्म नैति माम् एति सो’र्जुन ॥९॥
वीत-राग-भय-क्रोधा मन्-मया माम् उपाश्रिताः ।
बहवो ज्ञान-तपसा पूता मद्-भावम् आगताः ॥१०॥
ये यथा मां प्रपद्यन्ते तांस् तथैव भजाम्य् अहम् ।
मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः ॥११॥
काङ्क्षन्तः कर्मणां सिद्धिं यजन्त इह देवताः ।
क्षिप्रं हि मानुषे लोके सिद्धिर् भवति कर्मजा ॥१२॥
चातुर्वर्ण्यं मया सृष्टं गुण-कर्म-विभागशः ।
तस्य कर्तारम् अपि मां विद्ध्य् अकर्तारम् अव्ययम् ॥१३॥
न मां कर्माणि लिम्पन्ति न मे कर्म-फले स्पृहा ।
इति मां यो’भिजानाति कर्मभिर् न स बध्यते ॥१४॥
एवं ज्ञात्वा कृतं कर्म पूर्वैर् अपि मुमुक्षुभिः ।
कुरु कर्मैव तस्मात् त्वं पूर्वैः पूर्वतरं कृतम् ॥१५॥
किं कर्म किम् अकर्मेति कवयो’प्य् अत्र मोहिताः ।
तत् ते कर्म प्रवक्ष्यामि यज् ज्ञात्वा मोक्ष्यसे’शुभात् ॥१६॥
कर्मणो ह्य् अपि बोद्धव्यं बोद्धव्यं च विकर्मणः ।
अकर्मणश् च बोद्धव्यं गहना कर्मणो गतिः ॥१७॥
कर्मण्य् अकर्म यः पश्येद् अकर्मणि च कर्म यः ।
स बुद्धिमान् मनुष्येषु स युक्तः कृत्स्न-कर्म-कृत् ॥१८॥
यस्य सर्वे समारम्भाः काम-संकल्प-वर्जिताः ।
ज्ञानाग्नि-दग्ध-कर्माणं तम् आहुः पण्डितं बुधाः ॥१९॥
त्यक्त्वा कर्म-फलासङ्गं नित्य-तृप्तो निराश्रयः ।
कर्मण्य् अभिप्रवृत्तो’पि नैव किंचित् करोति सः ॥२०॥
निराशीर् यत-चित्तात्मा त्यक्त-सर्व-परिग्रहः ।
शारीरं केवलं कर्म कुर्वन् नाप्नोति किल्बिषम् ॥२१॥
यदृच्छा-लाभ-संतुष्टो द्वन्द्वातीतो विमत्सरः ।
समः सिद्धाव् असिद्धौ च कृत्वापि न निबध्यते ॥२२॥
गत-सङ्गस्य मुक्तस्य ज्ञानावस्थित-चेतसः ।
यज्ञायाचरतः कर्म समग्रं प्रविलीयते ॥२३॥
ब्रह्मार्पणं ब्रह्म हविर् ब्रह्माग्नौ ब्रह्मणा हुतम् ।
ब्रह्मैव तेन गन्तव्यं ब्रह्म-कर्म-समाधिना ॥२४॥
दैवम् एवापरे यज्ञं योगिनः पर्युपासते ।
ब्रह्माग्नाव् अपरे यज्ञं यज्ञेनैवोपजुह्वति ॥२५॥
श्रोत्रादीनीन्द्रियाण्य् अन्ये संयमाग्निषु जुह्वति ।
शब्दादीन् विषयान् अन्य इन्द्रियाग्निषु जुह्वति ॥२६॥
सर्वाणीन्द्रिय-कर्माणि प्राण-कर्माणि चापरे ।
आत्म-संयम-योगाग्नौ जुह्वति ज्ञान-दीपिते ॥२७॥
द्रव्य-यज्ञास् तपो-यज्ञा योग-यज्ञास् तथापरे ।
स्वाध्याय-ज्ञान-यज्ञाश् च यतयः संशित-व्रताः ॥२८॥
अपाने जुह्वति प्राणं प्राणे’पानं तथापरे ।
प्राणापान-गती रुद्ध्वा प्राणायाम-परायणाः ॥२९॥
अपरे नियताहाराः प्राणान् प्राणेषु जुह्वति ।
सर्वे’प्य् एते यज्ञ-विदो यज्ञ-क्षपित-कल्मषाः ॥३०॥
यज्ञ-शिष्टामृत-भुजो यान्ति ब्रह्म सनातनम् ।
नायं लोको’स्त्य् अयज्ञस्य कुतो’न्यः कुरुसत्तम ॥३१॥
एवं बहु-विधा यज्ञा वितता ब्रह्मणो मुखे ।
कर्म-जान् विद्धि तान् सर्वान् एवं ज्ञात्वा विमोक्ष्यसे ॥३२॥
श्रेयान् द्रव्य-मयाद् यज्ञाज् ज्ञान-यज्ञः परन्तप ।
सर्वं कर्माखिलं पार्थ ज्ञाने परिसमाप्यते ॥३३॥
तद् विद्धि प्रणिपातेन परिप्रश्नेन सेवया ।
उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस् तत्त्व-दर्शिनः ॥३४॥
यज् ज्ञात्वा न पुनर् मोहम् एवं यास्यसि पाण्डव ।
येन भूतान्य् अशेषेण द्रक्ष्यस्य् आत्मन्य् अथो मयि ॥३५॥
अपि चेद् असि पापेभ्यः सर्वेभ्यः पाप-कृत्तमः ।
सर्वं ज्ञान-प्लवेनैव वृजिनं संतरिष्यसि ॥३६॥
यथैधांसि समिद्धो’ग्निर् भस्मसात् कुरुते’र्जुन ।
ज्ञानाग्निः सर्व-कर्माणि भस्मसात् कुरुते तथा ॥३७॥
न हि ज्ञानेन सदृशं पवित्रम् इह विद्यते ।
तत् स्वयं योग-संसिद्धः कालेनात्मनि विन्दति ॥३८॥
श्रद्धावान् लभते ज्ञानं तत्-परः संयतेन्द्रियः ।
ज्ञानं लब्ध्वा परां शान्तिम् अचिरेणाधिगच्छति ॥३९॥
अज्ञश् चाश्रद्दधानश् च संशयात्मा विनश्यति ।
नायं लोको’स्ति न परो न सुखं संशयात्मनः ॥४०॥
योग-संन्यस्त-कर्माणं ज्ञान-संछिन्न-संशयम् ।
आत्मवन्तं न कर्माणि निबध्नन्ति धनंजय ॥४१॥
तस्माद् अज्ञान-संभूतं हृत्-स्थं ज्ञानासिनात्मनः ।
छित्त्वैनं संशयं योगम् आतिष्ठोत्तिष्ठ भारत ॥४२॥

इति श्री-महाभारते शत-साहस्रयां संहितायां वैयासिक्यां भीष्म-पर्वणि
श्रीमद्-भगवद्-गीतासूपनिषत्सु ब्रह्म-विद्यायां योग-शास्त्रे श्री-कृष्णार्जुन-संवादे
ज्ञान-कर्म-सन्न्यास-योगो नाम चतुर्ठो’ध्यायः ॥
—ओ)०(ओ—

(५)
अथ पञ्चमो’ध्यायः
सन्न्यास-योगः

अर्जुन उवाच
संन्यासं कर्मणां कृष्ण पुनर् योगं च शंससि ।
यच् छ्रेय एतयोर् एकं तन् मे ब्रूहि सुनिश्चितम् ॥१॥

श्री-भगवान् उवाच
संन्यासः कर्म-योगश् च निःश्रेयस-कराव् उभौ ।
तयोस् तु कर्म-संन्यासात् कर्म-योगो विशिष्यते ॥२॥
ज्ञेयः स नित्यसंन्यासी यो न द्वेष्टि न काङ्क्षति ।
निर्द्वन्द्वो हि महा-बाहो सुखं बन्धात् प्रमुच्यते ॥३॥
सांख्य-योगौ पृथग् बालाः प्रवदन्ति न पण्डिताः ।
एकम् अप्य् आस्थितः सम्यग् उभयोर् विन्दते फलम् ॥४॥
यत् सांख्यैः प्राप्यते स्थानं तद् योगैर् अपि गम्यते ।
एकं सांख्यं च योगं च यः पश्यति स पश्यति ॥५॥
संन्यासस् तु महा-बाहो दुःखम् आप्तुम् अयोगतः ।
योग-युक्तो मुनिर् ब्रह्म नचिरेणाधिगच्छति ॥६॥
योग-युक्तो विशुद्धात्मा विजितात्मा जितेन्द्रियः ।
सर्व-भूतात्म-भूतात्मा कुर्वन्न् अपि न लिप्यते ॥७॥
नैव किंचित् करोमीति युक्तो मन्येत तत्त्व-वित् ।
पश्यञ् शृण्वन् स्पृशञ् जिघ्रन्न् अश्नन् गच्छन् स्वपञ् श्वसन् ॥८॥
प्रलपन् विसृजन् गृह्णन्न् उन्मिषन् निमिषन्न् अपि ।
इन्द्रियाणीन्द्रियार्थेषु वर्तन्त इति धारयन् ॥९॥
ब्रह्मण्य् आधाय कर्माणि सङ्गं त्यक्त्वा करोति यः ।
लिप्यते न स पापेन पद्म-पत्रम् इवाम्भसा ॥१०॥
कायेन मनसा बुद्ध्या केवलैर् इन्द्रियैर् अपि ।
योगिनः कर्म कुर्वन्ति सङ्गं त्यक्त्वात्म-शुद्धये ॥११॥
युक्तः कर्म-फलं त्यक्त्वा शान्तिम् आप्नोति नैष्ठिकीम् ।
अयुक्तः काम-कारेण फले सक्तो निबध्यते ॥१२॥
सर्व-कर्माणि मनसा संन्यस्यास्ते सुखं वशी ।
नव-द्वारे पुरे देही नैव कुर्वन् न कारयन् ॥१३॥
न कर्तृत्वं न कर्माणि लोकस्य सृजति प्रभुः ।
न कर्म-फल-संयोगं स्वभावस् तु प्रवर्तते ॥१४॥
नादत्ते कस्य चित् पापं न चैव सुकृतं विभुः ।
अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवः ॥१५॥
ज्ञानेन तु तद् अज्ञानं येषां नाशितम् आत्मनः ।
तेषाम् आदित्यवज् ज्ञानं प्रकाशयति तत्-परम् ॥१६॥
तद्-बुद्धयस् तद्-आत्मानस् तन्-निष्ठास् तत्-परायणाः ।
गच्छन्त्य् अपुनर्-आवृत्तिं ज्ञान-निर्धूत-कल्मषाः ॥१७॥
विद्या-विनय-संपन्ने ब्राह्मणे गवि हस्तिनि ।
शुनि चैव श्वपाके च पण्डिताः सम-दर्शिनः ॥१८॥
इहैव तैर् जितः सर्गो येषां साम्ये स्थितं मनः ।
निर्दोषं हि समं ब्रह्म तस्माद् ब्रह्मणि ते स्थिताः ॥१९॥
न प्रहृष्येत् प्रियं प्राप्य नोद्विजेत् प्राप्य चाप्रियम् ।
स्थिर-बुद्धिर् असंमूढो ब्रह्म-विद् ब्रह्मणि स्थितः ॥२०॥
बाह्य-स्पर्शेष्व् असक्तात्मा विन्दत्य् आत्मनि यत् सुखम् ।
स ब्रह्म-योग-युक्तात्मा सुखम् अक्षयम् अश्नुते ॥२१॥
ये हि संस्पर्श-जा भोगा दुःख-योनय एव ते ।
आद्य्-अन्त-वन्तः कौन्तेय न तेषु रमते बुधः ॥२२॥
शक्नोतीहैव यः सोढुं प्राक् शरीर-विमोक्षणात् ।
काम-क्रोधोद्भवं वेगं स युक्तः स सुखी नरः ॥२३॥
यो’न्तः-सुखो’न्तर्-आरामस् तथान्तर्-ज्योतिर् एव यः ।
स योगी ब्रह्म-निर्वाणं ब्रह्म-भूतो’धिगच्छति ॥२४॥
लभन्ते ब्रह्म-निर्वाणम् ऋषयः क्षीण-कल्मषाः ।
छिन्न-द्वैधा यतात्मानः सर्व-भूत-हिते रताः ॥२५॥
काम-क्रोध-वियुक्तानां यतीनां यत-चेतसाम् ।
अभितो ब्रह्म-निर्वाणं वर्तते विदितात्मनाम् ॥२६॥
स्पर्शान् कृत्वा बहिर् बाह्यांश् चक्षुश् चैवान्तरे भ्रुवोः ।
प्राणापानौ समौ कृत्वा नासाभ्यन्तर-चारिणौ ॥२७॥
यतेन्द्रिय-मनो-बुद्धिर् मुनिर् मोक्ष-परायणः ।
विगतेच्छा-भय-क्रोधो यः सदा मुक्त एव सः ॥२८॥
भोक्तारं यज्ञ-तपसां सर्व-लोक-महेश्वरम् ।
सुहृदं सर्व-भूतानां ज्ञात्वा मां शान्तिम् ऋच्छति ॥२९॥

इति श्री-महाभारते शत-साहस्रयां संहितायां वैयासिक्यां भीष्म-पर्वणि
श्रीमद्-भगवद्-गीतासूपनिषत्सु ब्रह्म-विद्यायां योग-शास्त्रे श्री-कृष्णार्जुन-संवादे
सन्न्यास-योगो नाम पञ्चमो’ध्यायः ॥
—ओ)०(ओ—

(६)
अथ षष्ठो’ध्यायः
ध्यान-योगः

श्री-भगवान् उवाच
अनाश्रितः कर्म-फलं कार्यं कर्म करोति यः ।
स संन्यासी च योगी च न निरग्निर् न चाक्रियः ॥१॥
यं संन्यासम् इति प्राहुर् योगं तं विद्धि पाण्डव ।
न ह्य् असंन्यस्त-संकल्पो योगी भवति कश्चन ॥२॥
आरुरुक्षोर् मुनेर् योगं कर्म कारणम् उच्यते ।
योगारूढस्य तस्यैव शमः कारणम् उच्यते ॥३॥
यदा हि नेन्द्रियार्थेषु न कर्मस्व् अनुषज्जते ।
सर्व-संकल्प-संन्यासी योगारूढस् तदोच्यते ॥४॥
उद्धरेद् आत्मनात्मानं नात्मानम् अवसादयेत् ।
आत्मैव ह्य् आत्मनो बन्धुर् आत्मैव रिपुर् आत्मनः ॥५॥
बन्धुर् आत्मात्मनस् तस्य येनात्मैवात्मना जितः ।
अनात्मनस् तु शत्रुत्वे वर्तेतात्मैव शत्रुवत् ॥६॥
जितात्मनः प्रशान्तस्य परमात्मा समाहितः ।
शीतोष्ण-सुख-दुःखेषु तथा मानापमानयोः ॥७॥
ज्ञान-विज्ञान-तृप्तात्मा कूटस्थो विजितेन्द्रियः ।
युक्त इत्य् उच्यते योगी सम-लोष्टाश्म-काञ्चनः ॥८॥
सुहृन्-मित्रार्य्-उदासीन-मध्यस्थ-द्वेष्य-बन्धुषु ।
साधुष्व् अपि च पापेषु सम-बुद्धिर् विशिष्यते ॥९॥
योगी युञ्जीत सततम् आत्मानं रहसि स्थितः ।
एकाकी यत-चित्तात्मा निराशीर् अपरिग्रहः ॥१०॥
शुचौ देशे प्रतिष्ठाप्य स्थिरम् आसनम् आत्मनः ।
नात्युच्छ्रितं नातिनीचं चैलाजिन-कुशोत्तरम् ॥११॥
तत्रैकाग्रं मनः कृत्वा यत-चित्तेन्द्रिय-क्रियः ।
उपविश्यासने युञ्ज्याद् योगम् आत्म-विशुद्धये ॥१२॥
समं काय-शिरो-ग्रीवं धारयन्न् अचलं स्थिरः ।
संप्रेक्ष्य नासिकाग्रं स्वं दिशश् चानवलोकयन् ॥१३॥
प्रशान्तात्मा विगत-भीर् ब्रह्मचारि-व्रते स्थितः ।
मनः संयम्य मच्-चित्तो युक्त आसीत मत्-परः ॥१४॥
युञ्जन्न् एवं सदात्मानं योगी नियत-मानसः ।
शान्तिं निर्वाण-परमां मत्-संस्थाम् अधिगच्छति ॥१५॥
नात्यश्नतस् तु योगो’स्ति न चैकान्तम् अनश्नतः ।
न चातिस्वप्न-शीलस्य जाग्रतो नैव चार्जुन ॥१६॥
युक्ताहार-विहारस्य युक्त-चेष्टस्य कर्मसु ।
युक्त-स्वप्नावबोधस्य योगो भवति दुःखहा ॥१७॥
यदा विनियतं चित्तम् आत्मन्य् एवावतिष्ठते ।
निःस्पृहः सर्व-कामेभ्यो युक्त इत्य् उच्यते तदा ॥१८॥
यथा दीपो निवात-स्थो नेङ्गते सोपमा स्मृता ।
योगिनो यत-चित्तस्य युञ्जतो योगम् आत्मनः ॥१९॥
यत्रोपरमते चित्तं निरुद्धं योग-सेवया ।
यत्र चैवात्मनात्मानं पश्यन्न् आत्मनि तुष्यति ॥२०॥
सुखम् आत्यन्तिकं यत् तद् बुद्धि-ग्राह्यम् अतीन्द्रियम् ।
वेत्ति यत्र न चैवायं स्थितश् चलति तत्त्वतः ॥२१॥
यं लब्ध्वा चापरं लाभं मन्यते नाधिकं ततः ।
यस्मिन् स्थितो न दुःखेन गुरुणापि विचाल्यते ॥२२॥
तं विद्याद् दुःख-संयोग-वियोगं योग-संज्ञितम् ।
स निश्चयेन योक्तव्यो योगो’निर्विण्ण-चेतसा ॥२३॥
संकल्प-प्रभवान् कामांस् त्यक्त्वा सर्वान् अशेषतः ।
मनसैवेन्द्रिय-ग्रामं विनियम्य समन्ततः ॥२४॥
शनैः शनैर् उपरमेद् बुद्ध्या धृति-गृहीतया ।
आत्म-संस्थं मनः कृत्वा न किंचिद् अपि चिन्तयेत् ॥२५॥
यतो यतो निश्चरति मनश् चञ्चलम् अस्थिरम् ।
ततस् ततो नियम्यैतद् आत्मन्य् एव वशं नयेत् ॥२६॥
प्रशान्त-मनसं ह्य् एनं योगिनं सुखम् उत्तमम् ।
उपैति शान्त-रजसं ब्रह्म-भूतम् अकल्मषम् ॥२७॥
युञ्जन्न् एवं सदात्मानं योगी विगत-कल्मषः ।
सुखेन ब्रह्म-संस्पर्शम् अत्यन्तं सुखम् अश्नुते ॥२८॥
सर्व-भूत-स्थम् आत्मानं सर्व-भूतानि चात्मनि ।
ईक्षते योग-युक्तात्मा सर्वत्र सम-दर्शनः ॥२९॥
यो मां पश्यति सर्वत्र सर्वं च मयि पश्यति ।
तस्याहं न प्रणश्यामि स च मे न प्रणश्यति ॥३०॥
सर्व-भूत-स्थितं यो मां भजत्य् एकत्वम् आस्थितः ।
सर्वथा वर्तमानो’पि स योगी मयि वर्तते ॥३१॥
आत्मौपम्येन सर्वत्र समं पश्यति यो’र्जुन ।
सुखं वा यदि वा दुःखं स योगी परमो मतः ॥३२॥

अर्जुन उवाच
यो’यं योगस् त्वया प्रोक्तः साम्येन मधुसूदन ।
एतस्याहं न पश्यामि चञ्चलत्वात् स्थितिं स्थिराम् ॥३३॥
चञ्चलं हि मनः कृष्ण प्रमाथि बलवद् दृढम् ।
तस्याहं निग्रहं मन्ये वायोर् इव सुदुष्करम् ॥३४॥

श्री-भगवान् उवाच
असंशयं महा-बाहो मनो दुर्णिग्रहं चलम् ।
अभ्यासेन तु कौन्तेय वैराग्येण च गृह्यते ॥३५॥
असंयतात्मना योगो दुष्प्राप इति मे मतिः ।
वश्यात्मना तु यतता शक्यो’वाप्तुम् उपायतः ॥३६॥

अर्जुन उवाच
अयतिः श्रद्धयोपेतो योगाच् चलित-मानसः ।
अप्राप्य योग-संसिद्धिं कां गतिं कृष्ण गच्छति ॥३७॥
कच्चिन् नोभय-विभ्रष्टश् छिन्नाभ्रम् इव नश्यति ।
अप्रतिष्ठो महा-बाहो विमूढो ब्रह्मणः पथि ॥३८॥
एतन् मे संशयं कृष्ण छेत्तुम् अर्हस्य् अशेषतः ।
त्वद्-अन्यः संशयस्यास्य छेत्ता न ह्य् उपपद्यते ॥३९॥

श्री-भगवान् उवाच
पार्थ नैवेह नामुत्र विनाशस् तस्य विद्यते ।
न हि कल्याण-कृत् कश्चिद् दुर्गतिं तात गच्छति ॥४०॥
प्राप्य पुण्य-कृतां लोकान् उषित्वा शाश्वतीः समाः ।
शुचीनां श्रीमतां गेहे योग-भ्रष्टो’भिजायते ॥४१॥
अथ वा योगिनाम् एव कुले भवति धीमताम् ।
एतद् धि दुर्लभतरं लोके जन्म यद् ईदृशम् ॥४२॥
तत्र तं बुद्धि-संयोगं लभते पौर्वदेहिकम् ।
यतते च ततो भूयः संसिद्धौ कुरुनन्दन ॥४३॥
पूर्वाभ्यासेन तेनैव ह्रियते ह्य् अवशो’पि सः ।
जिज्ञासुर् अपि योगस्य शब्द-ब्रह्मातिवर्तते ॥४४॥
प्रयत्नाद् यतमानस् तु योगी संशुद्ध-किल्बिषः ।
अनेक-जन्म-संसिद्धस् ततो याति परां गतिम् ॥४५॥
तपस्विभ्यो’धिको योगी ज्ञानिभ्यो’पि मतो’धिकः ।
कर्मिभ्यश् चाधिको योगी तस्माद् योगी भवार्जुन ॥४६॥
योगिनाम् अपि सर्वेषां मद्-गतेनान्तरात्मना ।
श्रद्धावान् भजते यो मां स मे युक्ततमो मतः ॥४७॥

इति श्री-महाभारते शत-साहस्रयां संहितायां वैयासिक्यां भीष्म-पर्वणि
श्रीमद्-भगवद्-गीतासूपनिषत्सु ब्रह्म-विद्यायां योग-शास्त्रे श्री-कृष्णार्जुन-संवादे
ध्यान-योगो नाम षष्ठो’ध्यायः ॥
—ओ)०(ओ—

(७)
अथ सप्तमो’ध्यायः
ज्ञान-विज्ञान-योगः

श्री-भगवान् उवाच
मय्य् आसक्त-मनाः पार्थ योगं युञ्जन् मद्-आश्रयः ।
असंशयं समग्रं मां यथा ज्ञास्यसि तच् छृणु ॥१॥
ज्ञानं ते’हं स-विज्ञानम् इदं वक्ष्याम्य् अशेषतः ।
यज् ज्ञात्वा नेह भूयो’न्यज् ज्ञातव्यम् अवशिष्यते ॥२॥
मनुष्याणां सहस्रेषु कश्चिद् यतति सिद्धये ।
यतताम् अपि सिद्धानां कश्चिन् मां वेत्ति तत्त्वतः ॥३॥
भूमिर् आपो’नलो वायुः खं मनो बुद्धिर् एव च ।
अहंकार इतीयं मे भिन्ना प्रकृतिर् अष्टधा ॥४॥
अपरेयम् इतस् त्व् अन्यां प्रकृतिं विद्धि मे पराम् ।
जीव-भूतां महा-बाहो ययेदं धार्यते जगत् ॥५॥
एतद्-योनीनि भूतानि सर्वाणीत्य् उपधारय ।
अहं कृत्स्नस्य जगतः प्रभवः प्रलयस् तथा ॥६॥
मत्तः परतरं नान्यत् किंचिद् अस्ति धनंजय ।
मयि सर्वम् इदं प्रोतं सूत्रे मणि-गणा इव ॥७॥
रसो’हम् अप्सु कौन्तेय प्रभास्मि शशि-सूर्ययोः ।
प्रणवः सर्व-वेदेषु शब्दः खे पौरुषं नृषु ॥८॥
पुण्यो गन्धः पृथिव्यां च तेजश् चास्मि विभावसौ ।
जीवनं सर्व-भूतेषु तपश् चास्मि तपस्विषु ॥९॥
बीजं मां सर्व-भूतानां विद्धि पार्थ सनातनम् ।
बुद्धिर् बुद्धिमताम् अस्मि तेजस् तेजस्विनाम् अहम् ॥१०॥
बलं बलवतां चाहं काम-राग-विवर्जितम् ।
धर्माविरुद्धो भूतेषु कामो’स्मि भरतर्षभ ॥११॥
ये चैव सात्त्विका भावा राजसास् तामसाश् च ये ।
मत्त एवेति तान् विद्धि न त्व् अहं तेषु ते मयि ॥१२॥
त्रिभिर् गुण-मयैर् भावैर् एभिः सर्वम् इदं जगत् ।
मोहितं नाभिजानाति माम् एभ्यः परम् अव्ययम् ॥१३॥
दैवी ह्य् एषा गुण-मयी मम माया दुरत्यया ।
माम् एव ये प्रपद्यन्ते मायाम् एतां तरन्ति ते ॥१४॥
न मां दुष्कृतिनो मूढाः प्रपद्यन्ते नराधमाः ।
माययापहृत-ज्ञाना आसुरं भावम् आश्रिताः ॥१५॥
चतुर्-विधा भजन्ते मां जनाः सुकृतिनो’र्जुन ।
आर्तो जिज्ञासुर् अर्थार्थी ज्ञानी च भरतर्षभ ॥१६॥
तेषां ज्ञानी नित्य-युक्त एक-भक्तिर् विशिष्यते ।
प्रियो हि ज्ञानिनो’त्यर्थम् अहं स च मम प्रियः ॥१७॥
उदाराः सर्व एवैते ज्ञानी त्व् आत्मैव मे मतम् ।
आस्थितः स हि युक्तात्मा माम् एवानुत्तमां गतिम् ॥१८॥
बहूनां जन्मनाम् अन्ते ज्ञानवान् मां प्रपद्यते ।
वासुदेवः सर्वम् इति स महात्मा सुदुर्लभः ॥१९॥
कामैस् तैस् तैर् हृत-ज्ञानाः प्रपद्यन्ते’न्य-देवताः ।
तं तं नियमम् आस्थाय प्रकृत्या नियताः स्वया ॥२०॥
यो यो यां यां तनुं भक्तः श्रद्धयार्चितुम् इच्छति ।
तस्य तस्याचलां श्रद्धां ताम् एव विदधाम्य् अहम् ॥२१॥
स तया श्रद्धया युक्तस् तस्या राधनम् ईहते ।
लभते च ततः कामान् मयैव विहितान् हि तान् ॥२२॥
अन्तवत् तु फलं तेषां तद् भवत्य् अल्प-मेधसाम् ।
देवान् देव-यजो यान्ति मद्-भक्ता यान्ति माम् अपि ॥२३॥
अव्यक्तं व्यक्तिम् आपन्नं मन्यन्ते माम् अबुद्धयः ।
परं भावम् अजानन्तो ममाव्ययम् अनुत्तमम् ॥२४॥
नाहं प्रकाशः सर्वस्य योग-माया-समावृतः ।
मूढो’यं नाभिजानाति लोको माम् अजम् अव्ययम् ॥२५॥
वेदाहं समतीतानि वर्तमानानि चार्जुन ।
भविष्याणि च भूतानि मां तु वेद न कश्चन ॥२६॥
इच्छा-द्वेष-समुत्थेन द्वन्द्व-मोहेन भारत ।
सर्व-भूतानि संमोहं सर्गे यान्ति परन्तप ॥२७॥
येषां त्व् अन्त-गतं पापं जनानां पुण्य-कर्मणाम् ।
ते द्वन्द्व-मोह-निर्मुक्ता भजन्ते मां दृढ-व्रताः ॥२८॥
जरा-मरण-मोक्षाय माम् आश्रित्य यतन्ति ये ।
ते ब्रह्म तद् विदुः कृत्स्नम् अध्यात्मं कर्म चाखिलम् ॥२९॥
साधिभूताधिदैवं मां साधियज्ञं च ये विदुः ।
प्रयाण-काले’पि च मां ते विदुर् युक्त-चेतसः ॥३०॥

इति श्री-महाभारते शत-साहस्रयां संहितायां वैयासिक्यां भीष्म-पर्वणि
श्रीमद्-भगवद्-गीतासूपनिषत्सु ब्रह्म-विद्यायां योग-शास्त्रे श्री-कृष्णार्जुन-संवादे
ज्ञान-विज्ञान-योगो नाम सप्तमो’ध्यायः ॥
—ओ)०(ओ—

(८)
अथाष्टमो’ध्यायः
तारक-ब्रह्म-योगः

अर्जुन उवाच —
किं तद् ब्रह्म किम् अध्यात्मं किं कर्म पुरुषोत्तम ।
अधिभूतं च किं प्रोक्तम् अधिदैवं किम् उच्यते ॥१॥
अधियज्ञः कथं को’त्र देहे’स्मिन् मधुसूदन ।
प्रयाण-काले च कथं ज्ञेयो’सि नियतात्मभिः ॥२॥

श्री-भगवान् उवाच —
अक्षरं ब्रह्म परमं स्वभावो’ध्यात्मम् उच्यते ।
भूतभावोद्भव-करो विसर्गः कर्म-संज्ञितः ॥३॥
अधिभूतं क्षरो भावः पुरुषश् चाधिदैवतम् ।
अधियज्ञो’हम् एवात्र देहे देह-भृतां वर ॥४॥
अन्त-काले च माम् एव स्मरन् मुक्त्वा कलेवरम् ।
यः प्रयाति स मद्-भावं याति नास्त्य् अत्र संशयः ॥५॥
यं यं वापि स्मरन् भावं त्यजत्य् अन्ते कलेवरम् ।
तं तम् एवैति कौन्तेय सदा तद्-भाव-भावितः ॥६॥
तस्मात् सर्वेषु कालेषु माम् अनुस्मर युध्य च ।
मय्य् अर्पित-मनो-बुद्धिर् माम् एवैष्यस्य् असंशयः ॥७॥
अभ्यास-योग-युक्तेन चेतसा नान्य-गामिना ।
परमं पुरुषं दिव्यं याति पार्थानुचिन्तयन् ॥८॥
कविं पुराणम् अनुशासितारम्
अणोर् अणीयांसम् अनुस्मरेद् यः ।
सर्वस्य धातारम् अचिन्त्य-रूपम्
आदित्य-वर्णं तमसः परस्तात् ॥९॥
प्रयाण-काले मनसाचलेन
भक्त्या युक्तो योग-बलेन चैव ।
भ्रुवोर् मध्ये प्राणम् आवेश्य सम्यक्
स तं परं पुरुषम् उपैति दिव्यम् ॥१०॥
यद् अक्षरं वेद-विदो वदन्ति
विशन्ति यद् यतयो वीत-रागाः ।
यद् इच्छन्तो ब्रह्मचर्यं चरन्ति
तत् ते पदं संग्रहेण प्रवक्ष्ये ॥११॥
सर्व-द्वाराणि संयम्य मनो हृदि निरुध्य च ।
मूर्ध्न्य् आधायात्मनः प्राणम् आस्थितो योग-धारणाम् ॥१२॥
ओम् इत्य् एकाक्षरं ब्रह्म व्याहरन् माम् अनुस्मरन् ।
यः प्रयाति त्यजन् देहं स याति परमां गतिम् ॥१३॥
अनन्य-चेताः सततं यो मां स्मरति नित्यशः ।
तस्याहं सुलभः पार्थ नित्य-युक्तस्य योगिनः ॥१४॥
माम् उपेत्य पुनर्-जन्म दुःखालयम् अशाश्वतम् ।
नाप्नुवन्ति महात्मानः संसिद्धिं परमां गताः ॥१५॥
आ ब्रह्म-भुवनाल् लोकाः पुनर्-आवर्तिनो’र्जुन ।
माम् उपेत्य तु कौन्तेय पुनर्-जन्म न विद्यते ॥१६॥
सहस्र-युग-पर्यन्तम् अहर् यद् ब्रह्मणो विदुः ।
रात्रिं युग-सहस्रान्तां ते’हो-रात्र-विदो जनाः ॥१७॥
अव्यक्ताद् व्यक्तयः सर्वाः प्रभवन्त्य् अहर्-आगमे ।
रात्र्य्-आगमे प्रलीयन्ते तत्रैवाव्यक्त-संज्ञके ॥१८॥
भूत-ग्रामः स एवायं भूत्वा भूत्वा प्रलीयते ।
रात्र्य्-आगमे’वशः पार्थ प्रभवत्य् अहर्-आगमे ॥१९॥
परस् तस्मात् तु भावो’न्यो’व्यक्तो’व्यक्तात् सनातनः ।
यः स सर्वेषु भूतेषु नश्यत्सु न विनश्यति ॥२०॥
अव्यक्तो’क्षर इत्य् उक्तस् तम् आहुः परमां गतिम् ।
यं प्राप्य न निवर्तन्ते तद् धाम परमं मम ॥२१॥
पुरुषः स परः पार्थ भक्त्या लभ्यस् त्व् अनन्यया ।
यस्यान्तः-स्थानि भूतानि येन सर्वम् इदं ततम् ॥२२॥
यत्र काले त्व् अनावृत्तिम् आवृत्तिं चैव योगिनः ।
प्रयाता यान्ति तं कालं वक्ष्यामि भरतर्षभ ॥२३॥
अग्निर् ज्योतिर् अहः शुक्लः षण्-मासा उत्तरायणम् ।
तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्म-विदो जनाः ॥२४॥
धूमो रात्रिस् तथा कृष्णः षण्मासा दक्षिणायनम् ।
तत्र चान्द्रमसं ज्योतिर् योगी प्राप्य निवर्तते ॥२५॥
शुक्ल-कृष्णे गती ह्य् एते जगतः शाश्वते मते ।
एकया यात्य् अनावृत्तिम् अन्ययावर्तते पुनः ॥२६॥
नैते सृती पार्थ जानन् योगी मुह्यति कश्चन ।
तस्मात् सर्वेषु कालेषु योग-युक्तो भवार्जुन ॥२७॥
वेदेषु यज्ञेषु तपःसु चैव
दानेषु यत् पुण्य-फलं प्रदिष्टम् ।
अत्येति तत् सर्वम् इदं विदित्वा
योगी परं स्थानम् उपैति चाद्यम् ॥२८॥

इति श्री-महाभारते शत-साहस्रयां संहितायां वैयासिक्यां भीष्म-पर्वणि
श्रीमद्-भगवद्-गीतासूपनिषत्सु ब्रह्म-विद्यायां योग-शास्त्रे श्री-कृष्णार्जुन-संवादे
तारक-ब्रह्म-योगो नामाष्टमो’ध्यायः ॥
—ओ)०(ओ—

(९)
अथ नवमो’ध्यायः
राज-विद्या-राज-गुह्य-योगः

श्री-भगवान् उवाच
इदं तु ते गुह्यतमं प्रवक्ष्याम्य् अनसूयवे ।
ज्ञानं विज्ञान-सहितं यज् ज्ञात्वा मोक्ष्यसे’शुभात् ॥१॥
राज-विद्या राज-गुह्यं पवित्रम् इदम् उत्तमम् ।
प्रत्यक्षावगमं धर्म्यं सुसुखं कर्तुम् अव्ययम् ॥२॥
अश्रद्दधानाः पुरुषा धर्मस्यास्य परन्तप ।
अप्राप्य मां निवर्तन्ते मृत्यु-संसार-वर्त्मनि ॥३॥
मया ततम् इदं सर्वं जगद् अव्यक्त-मूर्तिना ।
मत्स्थानि सर्व-भूतानि न चाहं तेष्व् अवस्थितः ॥४॥
न च मत्-स्थानि भूतानि पश्य मे योगम् ऐश्वरम् ।
भूत-भृन् न च भूत-स्थो ममात्मा भूत-भावनः ॥५॥
यथाकाश-स्थितो नित्यं वायुः सर्वत्र-गो महान् ।
तथा सर्वाणि भूतानि मत्-स्थानीत्य् उपधारय ॥६॥
सर्व-भूतानि कौन्तेय प्रकृतिं यान्ति मामिकाम् ।
कल्प-क्षये पुनस् तानि कल्पादौ विसृजाम्य् अहम् ॥७॥
प्रकृतिं स्वाम् अवष्टभ्य विसृजामि पुनः पुनः ।
भूत-ग्रामम् इमं कृत्स्नम् अवशं प्रकृतेर् वशात् ॥८॥
न च मां तानि कर्माणि निबध्नन्ति धनंजय ।
उदासीनवद् आसीनम् असक्तं तेषु कर्मसु ॥९॥
मयाध्यक्षेण प्रकृतिः सूयते स-चराचरम् ।
हेतुनानेन कौन्तेय जगद् विपरिवर्तते ॥१०॥
अवजानन्ति मां मूढा मानुषीं तनुम् आश्रितम् ।
परं भावम् अजानन्तो मम भूत-महेश्वरम् ॥११॥
मोघाशा मोघ-कर्माणो मोघ-ज्ञाना विचेतसः ।
राक्षसीम् आसुरीं चैव प्रकृतिं मोहिनीं श्रिताः ॥१२॥
महात्मानस् तु मां पार्थ दैवीं प्रकृतिम् आश्रिताः ।
भजन्त्य् अनन्य-मनसो ज्ञात्वा भूतादिम् अव्ययम् ॥१३॥
सततं कीर्तयन्तो मां यतन्तश् च दृढ-व्रताः ।
नमस्यन्तश् च मां भक्त्या नित्य-युक्ता उपासते ॥१४॥
ज्ञान-यज्ञेन चाप्य् अन्ये यजन्तो माम् उपासते ।
एकत्वेन पृथक्त्वेन बहुधा विश्वतो-मुखम् ॥१५॥
अहं क्रतुर् अहं यज्ञः स्वधाहम् अहम् औषधम् ।
मन्त्रो’हम् अहम् एवाज्यम् अहम् अग्निर् अहं हुतम् ॥१६॥
पिताहम् अस्य जगतो माता धाता पितामहः ।
वेद्यं पवित्रम् ओंकार ऋक् साम यजुर् एव च ॥१७॥
गतिर् भर्ता प्रभुः साक्षी निवासः शरणं सुहृत् ।
प्रभवः प्रलयः स्थानं निधानं बीजम् अव्ययम् ॥१८॥
तपाम्य् अहम् अहं वर्षं निगृह्णाम्य् उत्सृजामि च ।
अमृतं चैव मृत्युश् च सद् असच् चाहम् अर्जुन ॥१९॥
त्रैविद्या मां सोमपाः पूत-पापा
यज्ञैर् इष्ट्वा स्वर्-गतिं प्रार्थयन्ते ।
ते पुण्यम् आसाद्य सुरेन्द्र-लोकम्
अश्नन्ति दिव्यान् दिवि देव-भोगान् ॥२०॥
ते तं भुक्त्वा स्वर्ग-लोकं विशालं
क्षीणे पुण्ये मर्त्य-लोकं विशन्ति ।
एवं त्रयी-धर्मम् अनुप्रपन्ना
गतागतं काम-कामा लभन्ते ॥२१॥
अनन्याश् चिन्तयन्तो मां ये जनाः पर्युपासते ।
तेषां नित्याभियुक्तानां योग-क्षेमं वहाम्य् अहम् ॥२२॥
ये’प्य् अन्य-देवता-भक्ता यजन्ते श्रद्धयान्विताः ।
ते’पि माम् एव कौन्तेय यजन्त्य् अविधि-पूर्वकम् ॥२३॥
अहं हि सर्व-यज्ञानां भोक्ता च प्रभुर् एव च ।
न तु माम् अभिजानन्ति तत्त्वेनातश् च्यवन्ति ते ॥२४॥
यान्ति देव-व्रता देवान् पितॄन् यान्ति पितृ-व्रताः ।
भूतानि यान्ति भूतेज्या यान्ति मद्-याजिनो’पि माम् ॥२५॥
पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति ।
तद् अहं भक्त्य्-उपहृतम् अश्नामि प्रयतात्मनः ॥२६॥
यत् करोषि यद् अश्नासि यज् जुहोषि ददासि यत् ।
यत् तपस्यसि कौन्तेय तत् कुरुष्व मद्-अर्पणम् ॥२७॥
शुभाशुभ-फलैर् एवं मोक्ष्यसे कर्म-बन्धनैः ।
संन्यास-योग-युक्तात्मा विमुक्तो माम् उपैष्यसि ॥२८॥
समो’हं सर्व-भूतेषु न मे द्वेष्यो’स्ति न प्रियः ।
ये भजन्ति तु मां भक्त्या मयि ते तेषु चाप्य् अहम् ॥२९॥
अपि चेत् सुदुराचारो भजते माम् अनन्य-भाक् ।
साधुर् एव स मन्तव्यः सम्यग् व्यवसितो हि सः ॥३०॥
क्षिप्रं भवति धर्मात्मा शश्वच्-छान्तिं निगच्छति ।
कौन्तेय प्रतिजानीहि न मे भक्तः प्रणश्यति ॥३१॥
मां हि पार्थ व्यपाश्रित्य ये’पि स्युः पाप-योनयः ।
स्त्रियो वैश्यास् तथा शूद्रास् ते’पि यान्ति परां गतिम् ॥३२॥
किं पुनर् ब्राह्मणाः पुण्या भक्ता राजर्षयस् तथा ।
अनित्यम् असुखं लोकम् इमं प्राप्य भजस्व माम् ॥३३॥
मन्-मना भव मद्-भक्तो मद्-याजी मां नमस्कुरु ।
माम् एवैष्यसि युक्त्वैवम् आत्मानं मत्-परायणः ॥३४॥

इति श्री-महाभारते शत-साहस्रयां संहितायां वैयासिक्यां भीष्म-पर्वणि
श्रीमद्-भगवद्-गीतासूपनिषत्सु ब्रह्म-विद्यायां योग-शास्त्रे श्री-कृष्णार्जुन-संवादे
राज-विद्या-राज-गुह्य-योगो नाम नवमो’ध्यायः ॥९॥
—ओ)०(ओ—

(१०)
अथ दशमो’ध्यायः
विभूति-योगः

श्री-भगवान् उवाच
भूय एव महा-बाहो शृणु मे परमं वचः ।
यत् ते’हं प्रीयमाणाय वक्ष्यामि हितकाम्यया ॥१॥
न मे विदुः सुरगणाः प्रभवं न महर्षयः ।
अहम् आदिर् हि देवानां महर्षीणां च सर्वशः ॥२॥
यो माम् अजम् अनादिं च वेत्ति लोक-महेश्वरम् ।
असंमूढः स मर्त्येषु सर्व-पापैः प्रमुच्यते ॥३॥
बुद्धिर् ज्ञानम् असंमोहः क्षमा सत्यं दमः शमः ।
सुखं दुःखं भवो’भावो भयं चाभयम् एव च ॥४॥
अहिंसा समता तुष्टिस् तपो दानं यशो’यशः ।
भवन्ति भावा भूतानां मत्त एव पृथग्-विधाः ॥५॥
महर्षयः सप्त पूर्वे चत्वारो मनवस् तथा ।
मद्-भावा मानसा जाता येषां लोक इमाः प्रजाः ॥६॥
एतां विभूतिं योगं च मम यो वेत्ति तत्त्वतः ।
सो’विकम्पेन योगेन युज्यते नात्र संशयः ॥७॥
अहं सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तते ।
इति मत्वा भजन्ते मां बुधा भाव-समन्विताः ॥८॥
मच्-चित्ता मद्-गत-प्राणा बोधयन्तः परस्परम् ।
कथयन्तश् च मां नित्यं तुष्यन्ति च रमन्ति च ॥९॥
तेषां सतत-युक्तानां भजतां प्रीति-पूर्वकम् ।
ददामि बुद्धि-योगं तं येन माम् उपयान्ति ते ॥१०॥
तेषाम् एवानुकम्पार्थम् अहम् अज्ञान-जं तमः ।
नाशयाम्य् आत्म-भाव-स्थो ज्ञान-दीपेन भास्वता ॥११॥

अर्जुन उवाच ।
परं ब्रह्म परं धाम पवित्रं परमं भवान् ।
पुरुषं शाश्वतं दिव्यम् आदि-देवम् अजं विभुम् ॥१२॥
आहुस् त्वाम् ऋषयः सर्वे देवर्षिर् नारदस् तथा ।
असितो देवलो व्यासः स्वयं चैव ब्रवीषि मे ॥१३॥
सर्वम् एतद् ऋतं मन्ये यन् मां वदसि केशव ।
न हि ते भगवन् व्यक्तिं विदुर् देवा न दानवाः ॥१४॥
स्वयम् एवात्मनात्मानं वेत्थ त्वं पुरुषोत्तम ।
भूत-भावन भूतेश देव-देव जगत्पते ॥१५॥
वक्तुम् अर्हस्य् अशेषेण दिव्या ह्य् आत्म-विभूतयः ।
याभिर् विभूतिभिर् लोकान् इमांस् त्वं व्याप्य तिष्ठसि ॥१६॥
कथं विद्याम् अहं योगिंस् त्वां सदा परिचिन्तयन् ।
केषु केषु च भावेषु चिन्त्यो’सि भगवन् मया ॥१७॥
विस्तरेणात्मनो योगं विभूतिं च जनार्दन ।
भूयः कथय तृप्तिर् हि शृण्वतो नास्ति मे’मृतम् ॥१८॥

श्री-भगवान् उवाच
हन्त ते कथयिष्यामि दिव्या ह्य् आत्म-विभूतयः ।
प्राधान्यतः कुरु-श्रेष्ठ नास्त्य् अन्तो विस्तरस्य मे ॥१९॥
अहम् आत्मा गुडाकेश सर्व-भूताशय-स्थितः ।
अहम् आदिश् च मध्यं च भूतानाम् अन्त एव च ॥२०॥
आदित्यानाम् अहं विष्णुर् ज्योतिषां रविर् अंशुमान् ।
मरीचिर् मरुताम् अस्मि नक्षत्राणाम् अहं शशी ॥२१॥
वेदानां साम-वेदो’स्मि देवानाम् अस्मि वासवः ।
इन्द्रियाणां मनश् चास्मि भूतानाम् अस्मि चेतना ॥२२॥
रुद्राणां शंकरश् चास्मि वित्तेशो यक्ष-रक्षसाम् ।
वसूनां पावकश्चास्मि मेरुः शिखरिणाम् अहम् ॥२३॥
पुरोधसां च मुख्यं मां विद्धि पार्थ बृहस्पतिम् ।
सेनानीनाम् अहं स्कन्दः सरसाम् अस्मि सागरः ॥२४॥
महर्षीणां भृगुर् अहं गिराम् अस्म्य् एकम् अक्षरम् ।
यज्ञानां जप-यज्ञो’स्मि स्थावराणां हिमालयः ॥२५॥
अश्वत्थः सर्व-वृक्षाणां देवर्षीणां च नारदः ।
गन्धर्वाणां चित्ररथः सिद्धानां कपिलो मुनिः ॥२६॥
उच्चैःश्रवसम् अश्वानां विद्धि माम् अमृतोद्भवम् ।
ऐरावतं गजेन्द्राणां नराणां च नराधिपम् ॥२७॥
आयुधानाम् अहं वज्रं धेनूनाम् अस्मि काम-धुक् ।
प्रजनश् चास्मि कन्दर्पः सर्पाणाम् अस्मि वासुकिः ॥२८॥
अनन्तश् चास्मि नागानां वरुणो यादसाम् अहम् ।
पितॄणाम् अर्यमा चास्मि यमः संयमताम् अहम् ॥२९॥
प्रह्लादश् चास्मि दैत्यानां कालः कलयताम् अहम् ।
मृगाणां च मृगेन्द्रो’हं वैनतेयश् च पक्षिणाम् ॥३०॥
पवनः पवताम् अस्मि रामः शस्त्र-भृताम् अहम् ।
झषाणां मकरश् चास्मि स्रोतसाम् अस्मि जाह्नवी ॥३१॥
सर्गाणाम् आदिर् अन्तश् च मध्यं चैवाहम् अर्जुन ।
अध्यात्म-विद्या विद्यानां वादः प्रवदताम् अहम् ॥३२॥
अक्षराणाम् अकारो’स्मि द्वन्द्वः सामासिकस्य च ।
अहम् एवाक्षयः कालो धाताहं विश्वतो-मुखः ॥३३॥
मृत्युः सर्व-हरश् चाहम् उद्भवश् च भविष्यताम् ।
कीर्तिः श्रीर् वाक् च नारीणां स्मृतिर् मेधा धृतिः क्षमा ॥३४॥
बृहत्-साम तथा साम्नां गायत्री छन्दसाम् अहम् ।
मासानां मार्गशीर्षो’हम् ऋतूनां कुसुमाकरः ॥३५॥
द्यूतं छलयताम् अस्मि तेजस् तेजस्विनाम् अहम् ।
जयो’स्मि व्यवसायो’स्मि सत्त्वं सत्त्ववताम् अहम् ॥३६॥
वृष्णीनां वासुदेवो’स्मि पाण्डवानां धनंजयः ।
मुनीनाम् अप्य् अहं व्यासः कवीनाम् उशना कविः ॥३७॥
दण्डो दमयताम् अस्मि नीतिर् अस्मि जिगीषताम् ।
मौनं चैवास्मि गुह्यानां ज्ञानं ज्ञानवताम् अहम् ॥३८॥
यच् चापि सर्व-भूतानां बीजं तद् अहम् अर्जुन ।
न तद् अस्ति विना यत् स्यान् मया भूतं चराचरम् ॥३९॥
नान्तो’स्ति मम दिव्यानां विभूतीनां परन्तप ।
एष तूद्देशतः प्रोक्तो विभूतेर् विस्तरो मया ॥४०॥
यद् यद् विभूतिमत् सत्त्वं श्रीमद् ऊर्जितम् एव वा ।
तत् तद् एवावगच्छ त्वं मम तेजो’ंश-संभवम् ॥४१॥
अथ वा बहुनैतेन किं ज्ञातेन तवार्जुन ।
विष्टभ्याहम् इदं कृत्स्नम् एकांशेन स्थितो जगत् ॥४२॥

इति श्री-महाभारते शत-साहस्रयां संहितायां वैयासिक्यां भीष्म-पर्वणि
श्रीमद्-भगवद्-गीतासूपनिषत्सु ब्रह्म-विद्यायां योग-शास्त्रे श्री-कृष्णार्जुन-संवादे विभूति-योगो नाम दशमो’ध्यायः ॥
—ओ)०(ओ—

(११)
अथैकादशो’ध्यायः
विश्व-रूप-दर्शन-योगः

अर्जुन उवाच
मद्-अनुग्रहाय परमं गुह्यम् अध्यात्म-संज्ञितम् ।
यत् त्वयोक्तं वचस् तेन मोहो’यं विगतो मम ॥१॥
भवाप्ययौ हि भूतानां श्रुतौ विस्तरशो मया ।
त्वत्तः कमल-पत्राक्ष माहात्म्यम् अपि चाव्ययम् ॥२॥
एवम् एतद् यथात्थ त्वम् आत्मानं परमेश्वर ।
द्रष्टुम् इच्छामि ते रूपम् ऐश्वरं पुरुषोत्तम ॥३॥
मन्यसे यदि तच् छक्यं मया द्रष्टुम् इति प्रभो ।
योगेश्वर ततो मे त्वं दर्शयात्मानम् अव्ययम् ॥४॥

श्री-भगवान् उवाच
पश्य मे पार्थ रूपाणि शतशो’थ सहस्रशः ।
नाना-विधानि दिव्यानि नाना-वर्णाकृतीनि च ॥५॥
पश्यादित्यान् वसून् रुद्रान् अश्विनौ मरुतस् तथा ।
बहून्य् अदृष्ट-पूर्वाणि पश्याश्चर्याणि भारत ॥६॥
इहैकस्थं जगत् कृत्स्नं पश्याद्य स-चराचरम् ।
मम देहे गुडाकेश यच् चान्यद् द्रष्टुम् इच्छसि ॥७॥
न तु मां शक्यसे द्रष्टुम् अनेनैव स्व-चक्षुषा ।
दिव्यं ददामि ते चक्षुः पश्य मे योगम् ऐश्वरम् ॥८॥

संजय उवाच
एवम् उक्त्वा ततो राजन् महा-योगेश्वरो हरिः ।
दर्शयाम् आस पार्थाय परमं रूपम् ऐश्वरम् ॥९॥
अनेक-वक्त्र-नयनम् अनेकाद्भुत-दर्शनम् ।
अनेक-दिव्याभरणं दिव्यानेकोद्यतायुधम् ॥१०॥
दिव्य-माल्याम्बर-धरं दिव्य-गन्धानुलेपनम् ।
सर्वाश्चर्य-मयं देवम् अनन्तं विश्वतो-मुखम् ॥११॥
दिवि सूर्य-सहस्रस्य भवेद् युगपद् उत्थिता ।
यदि भाः सदृशी सा स्याद् भासस् तस्य महात्मनः ॥१२॥
तत्रैकस्थं जगत् कृत्स्नं प्रविभक्तम् अनेकधा ।
अपश्यद् देव-देवस्य शरीरे पाण्डवस् तदा ॥१३॥
ततः स विस्मयाविष्टो हृष्ट-रोमा धनंजयः ।
प्रणम्य शिरसा देवं कृताञ्जलिर् अभाषत ॥१४॥

अर्जुन उवाच
पश्यामि देवांस् तव देव देहे
सर्वांस् तथा भूत-विशेष-संघान् ।
ब्रह्माणम् ईशं कमलासन-स्थम्
ऋषींश् च सर्वान् उरगांश् च दिव्यान् ॥१५॥
अनेक-बाहूदर-वक्त्र-नेत्रं
पश्यामि त्वा सर्वतो’नन्त-रूपम् ।
नान्तं न मध्यं न पुनस् तवादिं
पश्यामि विश्वेश्वर विश्व-रूप ॥१६॥
किरीटिनं गदिनं चक्रिणं च
तेजो-राशिं सर्वतो दीप्तिमन्तम् ।
पश्यामि त्वां दुर्निरीक्ष्यं समन्ताद्
दीप्तानलार्क-द्युतिम् अप्रमेयम् ॥१७॥
त्वम् अक्षरं परमं वेदितव्यं
त्वम् अस्य विश्वस्य परं निधानम् ।
त्वम् अव्ययः शाश्वत-धर्म-गोप्ता
सनातनस् त्वं पुरुषो मतो मे ॥१८॥
अनादि-मध्यान्तम् अनन्त-वीर्यम्
अनन्त-बाहुं शशि-सूर्य-नेत्रम् ।
पश्यामि त्वां दीप्त-हुताश-वक्त्रं
स्व-तेजसा विश्वम् इदं तपन्तम् ॥१९॥
द्याव्-आपृथिव्योर् इदम् अन्तरं हि
व्याप्तं त्वयैकेन दिशश् च सर्वाः ।
दृष्ट्वाद्भुतं रूपम् इदं तवोग्रं
लोक-त्रयं प्रव्यथितं महात्मन् ॥२०॥
अमी हि त्वा सुर-संघा विशन्ति
केचिद् भीताः प्राञ्जलयो गृणन्ति ।
स्वस्तीत्य् उक्त्वा महर्षि-सिद्ध-संघाः
स्तुवन्ति त्वां स्तुतिभिः पुष्कलाभिः ॥२१॥
रुद्रादित्या वसवो ये च साध्या
विश्वे’श्विनौ मरुतश् चोष्मपाश् च ।
गन्धर्व-यक्षासुर-सिद्ध-संघा
वीक्षन्ते त्वां विस्मिताश् चैव सर्वे ॥२२॥
रूपं महत् ते बहु-वक्त्र-नेत्रं
महा-बाहो बहु-बाहूरु-पादम् ।
बहूदरं बहु-दंष्ट्रा-करालं
दृष्ट्वा लोकाः प्रव्यथितास् तथाहम् ॥२३॥
नभः-स्पृशं दीप्तम् अनेक-वर्णं
व्यात्ताननं दीप्त-विशाल-नेत्रम् ।
दृष्ट्वा हि त्वां प्रव्यथितान्तरात्मा
धृतिं न विन्दामि शमं च विष्णो ॥२४॥
दंष्ट्रा-करालानि च ते मुखानि
दृष्ट्वैव कालानल-संनिभानि ।
दिशो न जाने न लभे च शर्म
प्रसीद देवेश जगन्-निवास ॥२५॥
अमी च त्वां धृतराष्ट्रस्य पुत्राः
सर्वे सहैवावनिपाल-संघैः ।
भीष्मो द्रोणः सूत-पुत्रस् तथासौ
सहास्मदीयैर् अपि योध-मुख्यैः ॥२६॥
वक्त्राणि ते त्वरमाणा विशन्ति
दंष्ट्रा-करालानि भयानकानि ।
केचिद् विलग्ना दशनान्तरेषु
सन्दृश्यन्ते चूर्णितैर् उत्तमाङ्गैः ॥२७॥
यथा नदीनां बहवो’म्बु-वेगाः
समुद्रम् एवाभिमुखा द्रवन्ति ।
तथा तवामी नर-लोक-वीरा
विशन्ति वक्त्राण्य् अभिविज्वलन्ति ॥२८॥
यथा प्रदीप्तं ज्वलनं पतङ्गा
विशन्ति नाशाय समृद्ध-वेगाः ।
तथैव नाशाय विशन्ति लोकास्
तवापि वक्त्राणि समृद्ध-वेगाः ॥२९॥
लेलिह्यसे ग्रसमानः समन्ताल्
लोकान् समग्रान् वदनैर् ज्वलद्भिः ।
तेजोभिर् आपूर्य जगत् समग्रं
भासस् तवोग्राः प्रतपन्ति विष्णो ॥३०॥
आख्याहि मे को भवान् उग्र-रूपो
नमो’स्तु ते देव-वर प्रसीद ।
विज्ञातुम् इच्छामि भवन्तम् आद्यं
न हि प्रजानामि तव प्रवृत्तिम् ॥३१॥

श्री-भगवान् उवाच
कालो’स्मि लोक-क्षय-कृत् प्रवृद्धो
लोकान् समाहर्तुम् इह प्रवृत्तः ।
ऋते’पि त्वा न भविष्यन्ति सर्वे
ये’वस्थिताः प्रत्यनीकेषु योधाः ॥३२॥
तस्मात् त्वम् उत्तिष्ठ यशो लभस्व
जित्वा शत्रून् भुङ्क्ष्व राज्यं समृद्धम् ।
मयैवैते निहताः पूर्वम् एव
निमित्त-मात्रं भव सव्यसाचिन् ॥३३॥
द्रोणं च भीष्मं च जयद्रथं च
कर्णं तथान्यान् अपि योध-वीरान् ।
मया हतांस् त्वं जहि मा व्यथिष्ठा
युध्यस्व जेतासि रणे सपत्नान् ॥३४॥

संजय उवाच
एतच् छ्रुत्वा वचनं केशवस्य
कृताञ्जलिर् वेपमानः किरीटी ।
नमस्कृत्वा भूय एवाह कृष्णं
स-गद्गदं भीत-भीतः प्रणम्य ॥३५॥

अर्जुन उवाच
स्थाने हृषीकेश तव प्रकीर्त्या
जगत् प्रहृष्यत्य् अनुरज्यते च ।
रक्षांसि भीतानि दिशो द्रवन्ति
सर्वे नमस्यन्ति च सिद्ध-संघाः ॥३६॥
कस्माच् च ते न नमेरन् महात्मन्
गरीयसे ब्रह्मणो’प्य् आदि-कर्त्रे ।
अनन्त देवेश जगन्-निवास
त्वम् अक्षरं सद् असत् तत्-परं यत् ॥३७॥
त्वम् आदि-देवः पुरुषः पुराणस्
त्वम् अस्य विश्वस्य परं निधानम् ।
वेत्तासि वेद्यं च परं च धाम
त्वया ततं विश्वम् अनन्त-रूप ॥३८॥
वायुर् यमो’ग्निर् वरुणः शशाङ्कः
प्रजापतिस् त्वं प्रपितामहश् च ।
नमो नमस् ते’स्तु सहस्र-कृत्वः
पुनश् च भूयो’पि नमो नमस् ते ॥३९॥
नमः पुरस्ताद् अथ पृष्ठतस् ते
नमो’स्तु ते सर्वत एव सर्व ।
अनन्त-वीर्यामित-विक्रमस् त्वं
सर्वं समाप्नोषि ततो’सि सर्वः ॥४०॥
सखेति मत्वा प्रसभं यद् उक्तं
हे कृष्ण हे यादव हे सखेति ।
अजानता महिमानं तवेदं
मया प्रमादात् प्रणयेन वापि ॥४१॥
यच् चावहासार्थम् असत्कृतो’सि
विहार-शय्यासन-भोजनेषु ।
एको’थ वाप्य् अच्युत तत्-समक्षं
तत् क्षामये त्वाम् अहम् अप्रमेयम् ॥४२॥
पितासि लोकस्य चराचरस्य
त्वम् अस्य पूज्यश् च गुरुर् गरीयान् ।
न त्वत्-समो’स्त्य् अभ्यधिकः कुतो’न्यो
लोक-त्रये’प्य् अप्रतिम-प्रभाव ॥४३॥
तस्मात् प्रणम्य प्रणिधाय कायं
प्रसादये त्वाम् अहम् ईशम् ईड्यम् ।
पितेव पुत्रस्य सखेव सख्युः
प्रियः प्रियायार्हसि देव सोढुम् ॥४४॥
अदृष्ट-पूर्वं हृषितो’स्मि दृष्ट्वा
भयेन च प्रव्यथितं मनो मे ।
तद् एव मे दर्शय देव रूपं
प्रसीद देवेश जगन्-निवास ॥४५॥
किरीटिनं गदिनं चक्र-हस्तम्
इच्छामि त्वां द्रष्टुम् अहं तथैव ।
तेनैव रूपेण चतुर्-भुजेन
सहस्र-बाहो भव विश्व-मूर्ते ॥४६॥

श्री-भगवान् उवाच
मया प्रसन्नेन तवार्जुनेदं
रूपं परं दर्शितम् आत्म-योगात् ।
तेजो-मयं विश्वम् अनन्तम्
आद्यं यन् मे त्वद्-अन्येन न दृष्ट-पूर्वम् ॥४७॥
न वेद यज्ञाध्ययनैर् न दानैर्
न च क्रियाभिर् न तपोभिर् उग्रैः ।
एवं-रूपः शक्य अहं नृ-लोके
द्रष्टुं त्वद्-अन्येन कुरु-प्रवीर ॥४८॥
मा ते व्यथा मा च विमूढ-भावो
दृष्ट्वा रूपं घोरम् ईदृङ् ममेदम् ।
व्यपेत-भीः प्रीत-मनाः पुनस् त्वं
तद् एव मे रूपम् इदं प्रपश्य ॥४९॥

संजय उवाच
इत्य् अर्जुनं वासुदेवस् तथोक्त्वा
स्वकं रूपं दर्शयाम् आस भूयः ।
आश्वासयाम् आस च भीतम् एनं
भूत्वा पुनः सौम्य-वपुर् महात्मा ॥५०॥

अर्जुन उवाच
दृष्ट्वेदं मानुषं रूपं तव सौम्यं जनार्दन ।
इदानीम् अस्मि संवृत्तः स-चेताः प्रकृतिं गतः ॥५१॥

श्री-भगवान् उवाच
सुदुर्दर्शम् इदं रूपं दृष्टवान् असि यन् मम ।
देवा अप्य् अस्य रूपस्य नित्यं दर्शन-काङ्क्षिणः ॥५२॥
नाहं वेदैर् न तपसा न दानेन न चेज्यया ।
शक्य एवं-विधो द्रष्टुं दृष्टवान् असि मां यथा ॥५३॥
भक्त्या त्व् अनन्यया शक्य अहम् एवं-विधो’र्जुन ।
ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परन्तप ॥५४॥
मत्-कर्म-कृन् मत्-परमो मद्-भक्तः सङ्ग-वर्जितः ।
निर्वैरः सर्व-भूतेषु यः स माम् एति पाण्डव ॥५५॥

इति श्री-महाभारते शत-साहस्रयां संहितायां वैयासिक्यां भीष्म-पर्वणि
श्रीमद्-भगवद्-गीतासूपनिषत्सु ब्रह्म-विद्यायां योग-शास्त्रे श्री-कृष्णार्जुन-संवादे विश्व-रूप-योगो नामैकादशो’ध्यायः ॥
—ओ)०(ओ—

(१२)
अथ द्वादशो’ध्यायः
भक्ति-योगः

अर्जुन उवाच
एवं सतत-युक्ता ये भक्तास् त्वां पर्युपासते ।
ये चाप्य् अक्षरम् अव्यक्तं तेषां के योग-वित्तमाः ॥१॥
श्री-भगवान् उवाच
मय्य् आवेश्य मनो ये मां नित्य-युक्ता उपासते ।
श्रद्धया परयोपेतास् ते मे युक्ततमा मताः ॥२॥
ये त्व् अक्षरम् अनिर्देश्यम् अव्यक्तं पर्युपासते ।
सर्वत्र-गम् अचिन्त्यं च कूटस्थम् अचलं ध्रुवम् ॥३॥
संनियम्येन्द्रिय-ग्रामं सर्वत्र सम-बुद्धयः ।
ते प्राप्नुवन्ति माम् एव सर्व-भूत-हिते रताः ॥४॥
क्लेशो’धिकतरस् तेषाम् अव्यक्तासक्त-चेतसाम् ।
अव्यक्ता हि गतिर् दुःखं देहवद्भिर् अवाप्यते ॥५॥
ये तु सर्वाणि कर्माणि मयि संन्यस्य मत्-पराः ।
अनन्येनैव योगेन मां ध्यायन्त उपासते ॥६॥
तेषाम् अहं समुद्धर्ता मृत्यु-संसार-सागरात् ।
भवामि नचिरात् पार्थ मय्य् आवेशित-चेतसाम् ॥७॥
मय्य् एव मन आधत्स्व मयि बुद्धिं निवेशय ।
निवसिष्यसि मय्य् एव अत ऊर्ध्वं न संशयः ॥८॥
अथ चित्तं समाधातुं न शक्नोषि मयि स्थिरम् ।
अभ्यास-योगेन ततो माम् इच्छाप्तुं धनंजय ॥९॥
अभ्यासे’प्य् असमर्थो’सि मत्-कर्म-परमो भव ।
मद्-अर्थम् अपि कर्माणि कुर्वन् सिद्धिम् अवाप्स्यसि ॥१०॥
अथैतद् अप्य् अशक्तो’सि कर्तुं मद्-योगम् आश्रितः ।
सर्व-कर्म-फल-त्यागं ततः कुरु यतात्मवान् ॥११॥
श्रेयो हि ज्ञानम् अभ्यासाज् ज्ञानाद् ध्यानं विशिष्यते ।
ध्यानात् कर्म-फल-त्यागस् त्यागाच् छान्तिर् अनन्तरम् ॥१२॥
अद्वेष्टा सर्व-हूतानां मैत्रः करुण एव च ।
निर्ममो निरहंकारः सम-दुःख-सुखः क्षमी ॥१३॥
संतुष्टः सततं योगी यतात्मा दृढ-निश्चयः ।
मय्य् अर्पित-मनो-बुद्धिर् यो मद्-भक्तः स मे प्रियः ॥१४॥
यस्मान् नोद्विजते लोको लोकान् नोद्विजते च यः ।
हर्षामर्ष-भयोद्वेगैर् मुक्तो यः स च मे प्रियः ॥१५॥
अनपेक्षः शुचिर् दक्ष उदासीनो गत-व्यथः ।
सर्वारम्भ-परित्यागी यो मद्-भक्तः स मे प्रियः ॥१६॥
यो न हृष्यति न द्वेष्टि न शोचति न काङ्क्षति ।
शुभाशुभ-परित्यागी भक्तिमान् यः स मे प्रियः ॥१७॥
समः शत्रौ च मित्रे च तथा मानापमानयोः ।
शीतोष्ण-सुख-दुःखेषु समः सङ्ग-विवर्जितः ॥१८॥
तुल्य-निन्दा-स्तुतिर् मौनी संतुष्टो येन केनचित् ।
अनिकेतः स्थिर-मतिर् भक्तिमान् मे प्रियो नरः ॥१९॥
ये तु धर्म्यामृतम् इदं यथोक्तं पर्युपासते ।
श्रद्दधाना मत्-परमा भक्तास् ते’तीव मे प्रियाः ॥२०॥

इति श्री-महाभारते शत-साहस्रयां संहितायां वैयासिक्यां भीष्म-पर्वणि
श्रीमद्-भगवद्-गीतासूपनिषत्सु ब्रह्म-विद्यायां योग-शास्त्रे श्री-कृष्णार्जुन-संवादे भक्ति-योगो नाम द्वादशो’ध्यायः ॥
—ओ)०(ओ—

(१३)
अथ त्रयोदशो’ध्यायः
क्षेत्र-क्षेत्रज्ञ-योगः

श्री-भगवान् उवाच
इदं शरीरं कौन्तेय क्षेत्रम् इत्य् अभिधीयते ।
एतद् यो वेत्ति तं प्राहुः क्षेत्रज्ञ इति तद्विदः ॥१॥
क्षेत्रज्ञं चापि मां विद्धि सर्व-क्षेत्रेषु भारत ।
क्षेत्र-क्षेत्रज्ञयोर् ज्ञानं यत् तज् ज्ञानं मतं मम ॥२॥
तत् क्षेत्रं यच् च यादृक् च यद्-विकारि यतश् च यत् ।
स च यो यत्-प्रभावश् च तत् समासेन मे शृणु ॥३॥
ऋषिभिर् बहुधा गीतं छन्दोभिर् विविधैः पृथक् ।
ब्रह्म-सूत्र-पदैश् चैव हेतुमद्भिर् विनिश्चितैः ॥४॥
महा-भूतान्य् अहंकारो बुद्धिर् अव्यक्तम् एव च ।
इन्द्रियाणि दशैकं च पञ्च चेन्द्रिय-गोचराः ॥५॥
इच्छा द्वेषः सुखं दुःखं संघातश् चेतना धृतिः ।
एतत् क्षेत्रं समासेन स-विकारम् उदाहृतम् ॥६॥
अमानित्वम् अदम्भित्वम् अहिंसा क्षान्तिर् आर्जवम् ।
आचार्योपासनं शौचं स्थैर्यम् आत्म-विनिग्रहः ॥७॥
इन्द्रियार्थेषु वैराग्यम् अनहंकार एव च ।
जन्म-मृत्यु-जरा-व्याधि-दुःख-दोषानुदर्शनम् ॥८॥
असक्तिर् अनभिष्वङ्गः पुत्र-दार-गृहादिषु ।
नित्यं च सम-चित्तत्वम् इष्टानिष्टोपपत्तिषु ॥९॥
मयि चानन्य-योगेन भक्तिर् अव्यभिचारिणी ।
विविक्त-देश-सेवित्वम् अरतिर् जन-संसदि ॥१०॥
अध्यात्म-ज्ञान-नित्यत्वं तत्त्व-ज्ञानार्थ-दर्शनम् ।
एतज् ज्ञानम् इति प्रोक्तम् अज्ञानं यद् अतो’न्यथा ॥११॥
ज्ञेयं यत् तत् प्रवक्ष्यामि यज् ज्ञात्वामृतम् अश्नुते ।
अनादिमत् परं ब्रह्म न सत् तन् नासद् उच्यते ॥१२॥
सर्वतः पाणि-पादं तत् सर्वतो’क्षि-शिरो-मुखम् ।
सर्वतः श्रुतिमल् लोके सर्वम् आवृत्य तिष्ठति ॥१३॥
सर्वेन्द्रिय-गुणाभासं सर्वेन्द्रिय-विवर्जितम् ।
असक्तं सर्व-भृच् चैव निर्गुणं गुण-भोक्तृ च ॥१४॥
बहिर् अन्तश् च भूतानाम् अचरं चरम् एव च ।
सूक्ष्मत्वात् तद् अविज्ञेयं दूर-स्थं चान्तिके च तत् ॥१५॥
अविभक्तं च भूतेषु विभक्तम् इव च स्थितम् ।
भूत-भर्तृ च तज् ज्ञेयं ग्रसिष्णु प्रभविष्णु च ॥१६॥
ज्योतिषाम् अपि तज् ज्योतिस् तमसः परम् उच्यते ।
ज्ञानं ज्ञेयं ज्ञान-गम्यं हृदि सर्वस्य विष्ठितम् ॥१७॥
इति क्षेत्रं तथा ज्ञानं ज्ञेयं चोक्तं समासतः ।
मद्-भक्त एतद् विज्ञाय मद्-भावायोपपद्यते ॥१८॥
प्रकृतिं पुरुषं चैव विद्ध्य् अनादी उभाव् अपि ।
विकारांश् च गुणांश् चैव विद्धि प्रकृति-संभवान् ॥१९॥
कार्य-कारण-कर्तृत्वे हेतुः प्रकृतिर् उच्यते ।
पुरुषः सुख-दुःखानां भोक्तृत्वे हेतुर् उच्यते ॥२०॥
पुरुषः प्रकृति-स्थो हि भुङ्क्ते प्रकृतिजान् गुणान् ।
कारणं गुण-सङ्गो’स्य सद्-असद्-योनि-जन्मसु ॥२१॥
उपद्रष्टानुमन्ता च भर्ता भोक्ता महेश्वरः ।
परमात्मेति चाप्य् उक्तो देहे’स्मिन् पुरुषः परः ॥२२॥
य एवं वेत्ति पुरुषं प्रकृतिं च गुणैः सह ।
सर्वथा वर्तमानो’पि न स भूयो’भिजायते ॥२३॥
ध्यानेनात्मनि पश्यन्ति के चिद् आत्मानम् आत्मना ।
अन्ये सांख्येन योगेन कर्म-योगेन चापरे ॥२४॥
अन्ये त्व् एवम् अजानन्तः श्रुत्वान्येभ्य उपासते ।
ते’पि चातितरन्त्य् एव मृत्युं श्रुति-परायणाः ॥२५॥
यावत् संजायते किंचित् सत्त्वं स्थावर-जङ्गमम् ।
क्षेत्र-क्षेत्रज्ञ-संयोगात् तद् विद्धि भरतर्षभ ॥२६॥
समं सर्वेषु भूतेषु तिष्ठन्तं परमेश्वरम् ।
विनश्यत्स्व् अविनश्यन्तं यः पश्यति स पश्यति ॥२७॥
समं पश्यन् हि सर्वत्र समवस्थितम् ईश्वरम् ।
न हिनस्त्य् आत्मनात्मानं ततो याति परां गतिम् ॥२८॥
प्रकृत्यैव च कर्माणि क्रियमाणानि सर्वशः ।
यः पश्यति तथात्मानम् अकर्तारं स पश्यति ॥२९॥
यदा भूत-पृथग्-भावम् एकस्थम् अनुपश्यति ।
तत एव च विस्तारं ब्रह्म संपद्यते तदा ॥३०॥
अनादित्वान् निर्गुणत्वात् परमात्मायम् अव्ययः ।
शरीर-स्थो’पि कौन्तेय न करोति न लिप्यते ॥३१॥
यथा सर्व-गतं सौक्ष्म्याद् आकाशं नोपलिप्यते ।
सर्वत्रावस्थितो देहे तथात्मा नोपलिप्यते ॥३२॥
यथा प्रकाशयत्य् एकः कृत्स्नं लोकम् इमं रविः ।
क्षेत्रं क्षेत्री तथा कृत्स्नं प्रकाशयति भारत ॥३३॥
क्षेत्र-क्षेत्रज्ञयोर् एवम् अन्तरं ज्ञान-चक्षुषा ।
भूत-प्रकृति-मोक्षं च ये विदुर् यान्ति ते परम् ॥३४॥

इति श्री-महाभारते शत-साहस्रयां संहितायां वैयासिक्यां भीष्म-पर्वणि
श्रीमद्-भगवद्-गीतासूपनिषत्सु ब्रह्म-विद्यायां योग-शास्त्रे श्री-कृष्णार्जुन-संवादे
क्षेत्र-क्षेत्रज्ञ-योगो नाम त्रयोदशो’ध्यायः ॥१३॥
—ओ)०(ओ—

(१४)
अथ चतुर्दशो’ध्यायः
गुण-त्रय-विभाग-योगः

श्री-भगवान् उवाच
परं भूयः प्रवक्ष्यामि ज्ञानानां ज्ञानम् उत्तमम् ।
यज् ज्ञात्वा मुनयः सर्वे परां सिद्धिम् इतो गताः ॥१॥
इदं ज्ञानम् उपाश्रित्य मम साधर्म्यम् आगताः ।
सर्गे’पि नोपजायन्ते प्रलये न व्यथन्ति च ॥२॥
मम योनिर् महद् ब्रह्म तस्मिन् गर्भं दधाम्य् अहम् ।
संभवः सर्व-भूतानां ततो भवति भारत ॥३॥
सर्व-योनिषु कौन्तेय मूर्तयः संभवन्ति याः ।
तासां ब्रह्म महद् योनिर् अहं बीज-प्रदः पिता ॥४॥
सत्त्वं रजस् तम इति गुणाः प्रकृति-संभवाः ।
निबध्नन्ति महा-बाहो देहे देहिनम् अव्ययम् ॥५॥
तत्र सत्त्वं निर्मलत्वात् प्रकाशकम् अनामयम् ।
सुख-सङ्गेन बध्नाति ज्ञान-सङ्गेन चानघ ॥६॥
रजो रागात्मकं विद्धि तृष्णासङ्ग-समुद्भवम् ।
तन् निबध्नाति कौन्तेय कर्म-सङ्गेन देहिनम् ॥७॥
तमस् त्व् अज्ञान-जं विद्धि मोहनं सर्व-देहिनाम् ।
प्रमादालस्य-निद्राभिस् तन् निबध्नाति भारत ॥८॥
सत्त्वं सुखे संजयति रजः कर्मणि भारत ।
ज्ञानम् आवृत्य तु तमः प्रमादे संजयत्य् उत ॥९॥
रजस् तमश् चाभिभूय सत्त्वं भवति भारत ।
रजः सत्त्वं तमश् चैव तमः सत्त्वं रजस् तथा ॥१०॥
सर्व-द्वारेषु देहे’स्मिन् प्रकाश उपजायते ।
ज्ञानं यदा तदा विद्याद् विवृद्धं सत्त्वम् इत्य् उत ॥११॥
लोभः प्रवृत्तिर् आरम्भः कर्मणाम् अशमः स्पृहा ।
रजस्य् एतानि जायन्ते विवृद्धे भरतर्षभ ॥१२॥
अप्रकाशो’प्रवृत्तिश् च प्रमादो मोह एव च ।
तमस्य् एतानि जायन्ते विवृद्धे कुरु-नन्दन ॥१३॥
यदा सत्त्वे प्रवृद्धे तु प्रलयं याति देह-भृत् ।
तदोत्तम-विदां लोकान् अमलान् प्रतिपद्यते ॥१४॥
रजसि प्रलयं गत्वा कर्म-सङ्गिषु जायते ।
तथा प्रलीनस् तमसि मूढ-योनिषु जायते ॥१५॥
कर्मणः सुकृतस्याहुः सात्त्विकं निर्मलं फलम् ।
रजसस् तु फलं दुःखम् अज्ञानं तमसः फलम् ॥१६॥
सत्त्वात् संजायते ज्ञानं रजसो लोभ एव च ।
प्रमाद-मोहौ तमसो भवतो’ज्ञानम् एव च ॥१७॥
ऊर्ध्वं गच्छन्ति सत्त्व-स्था मध्ये तिष्ठन्ति राजसाः ।
जघन्य-गुण-वृत्त-स्था अधो गच्छन्ति तामसाः ॥१८॥
नान्यं गुणेभ्यः कर्तारं यदा द्रष्टानुपश्यति ।
गुणेभ्यश् च परं वेत्ति मद्-भावं सो’धिगच्छति ॥१९॥
गुणान् एतान् अतीत्य त्रीन् देही देह-समुद्भवान् ।
जन्म-मृत्यु-जरा-दुःखैर् विमुक्तो’मृतम् अश्नुते ॥२०॥

अर्जुन उवाच
कैर् लिङ्गैस् त्रीन् गुणान् एतान् अतीतो भवति प्रभो ।
किम्-आचारः कथं चैतांस् त्रीन् गुणान् अतिवर्तते ॥२१॥

श्री-भगवान् उवाच
प्रकाशं च प्रवृत्तिं च मोहम् एव च पाण्डव ।
न द्वेष्टि संप्रवृत्तानि न निवृत्तानि काङ्क्षति ॥२२॥
उदासीनवद् आसीनो गुणैर् यो न विचाल्यते ।
गुणा वर्तन्त इत्य् एव यो’वतिष्ठति नेङ्गते ॥२३॥
सम-दुःख-सुखः स्वस्थः सम-लोष्टाश्म-काञ्चनः ।
तुल्य-प्रियाप्रियो धीरस् तुल्य-निन्दात्म-संस्तुतिः ॥२४॥
मानापमानयोस् तुल्यस् तुल्यो मित्रारि-पक्षयोः ।
सर्वारम्भ-परित्यागी गुणातीतः स उच्यते ॥२५॥
मां च यो’व्यभिचारेण भक्ति-योगेन सेवते ।
स गुणान् समतीत्यैतान् ब्रह्म-भूयाय कल्पते ॥२६॥
ब्रह्मणो हि प्रतिष्ठाहम् अमृतस्याव्ययस्य च ।
शाश्वतस्य च धर्मस्य सुखस्यैकान्तिकस्य च ॥२७॥

इति श्री-महाभारते शत-साहस्रयां संहितायां वैयासिक्यां भीष्म-पर्वणि
श्रीमद्-भगवद्-गीतासूपनिषत्सु ब्रह्म-विद्यायां योग-शास्त्रे श्री-कृष्णार्जुन-संवादे
गुण-त्रय-विभाग-योगो नाम चतुर्दशो’ध्यायः ॥
—ओ)०(ओ—

(१५)
अथ पञ्चदशो’ध्यायः
पुरुषोत्तम-योगः

श्री-भगवान् उवाच
ऊर्ध्व-मूलम् अधः-शाखम् अश्वत्थं प्राहुर् अव्ययम् ।
छन्दांसि यस्य पर्णानि यस् तं वेद स वेदवित् ॥१॥
अधश् चोर्ध्वं प्रसृतास् तस्य शाखा
गुण-प्रवृद्धा विषय-प्रवालाः ।
अधश् च मूलान्य् अनुसंततानि
कर्मानुबन्धीनि मनुष्य-लोके ॥२॥
न रूपम् अस्येह तथोपलभ्यते
नान्तो न चादिर् न च संप्रतिष्ठा ।
अश्वत्थम् एनं सु-विरूढ-मूलम्
असङ्ग-शस्त्रेण दृढेन छित्त्वा ॥३॥
ततः पदं तत्-परिमार्गितव्यं
यस्मिन् गता न निवर्तन्ति भूयः ।
तम् एव चाद्यं पुरुषं प्रपद्ये
यतः प्रवृत्तिः प्रसृता पुराणी ॥४॥
निर्मान-मोहा जित-सङ्ग-दोषा
अध्यात्म-नित्या विनिवृत्त-कामाः ।
द्वन्द्वैर् विमुक्ताः सुख-दुःख-संज्ञैर्
गच्छन्त्य् अमूढाः पदम् अव्ययं तत् ॥५॥
न तद् भासयते सूर्यो न शशाङ्को न पावकः ।
यद् गत्वा न निवर्तन्ते तद् धाम परमं मम ॥६॥
ममैवांशो जीव-लोके जीव-भूतः सनातनः ।
मनः-षष्ठानीन्द्रियाणि प्रकृति-स्थानि कर्षति ॥७॥
शरीरं यद् अवाप्नोति यच् चाप्य् उत्क्रामतीश्वरः ।
गृहीत्वैतानि संयाति वायुर् गन्धान् इवाशयात् ॥८॥
श्रोत्रं चक्षुः स्पर्शनं च रसनं घ्राणम् एव च ।
अधिष्ठाय मनश् चायं विषयान् उपसेवते ॥९॥
उत्क्रामन्तं स्थितं वापि भुञ्जानं वा गुणान्वितम् ।
विमूढा नानुपश्यन्ति पश्यन्ति ज्ञान-चक्षुषः ॥१०॥
यतन्तो योगिनश् चैनं पश्यन्त्य् आत्मन्य् अवस्थितम् ।
यतन्तो’प्य् अकृतात्मानो नैनं पश्यन्त्य् अचेतसः ॥११॥
यद् आदित्य-गतं तेजो जगद् भासयते’खिलम् ।
यच् चन्द्रमसि यच् चाग्नौ तत् तेजो विद्धि मामकम् ॥१२॥
गाम् आविश्य च भूतानि धारयाम्य् अहम् ओजसा ।
पुष्णामि चौषधीः सर्वाः सोमो भूत्वा रसात्मकः ॥१३॥
अहं वैश्वानरो भूत्वा प्राणिनां देहम् आश्रितः ।
प्राणापान-समायुक्तः पचाम्य् अन्नं चतुर्-विधम् ॥१४॥
सर्वस्य चाहं हृदि संनिविष्टो
मत्तः स्मृतिर् ज्ञानम् अपोहनं च ।
वेदैश् च सर्वैर् अहम् एव वेद्यो
वेदान्त-कृद् वेद-विद् एव चाहम् ॥१५॥
द्वाव् इमौ पुरुषौ लोके क्षरश् चाक्षर एव च ।
क्षरः सर्वाणि भूतानि कूटस्थो’क्षर उच्यते ॥१६॥
उत्तमः पुरुषस् त्व् अन्यः परमात्मेत्य् उदाहृतः ।
यो लोक-त्रयम् आविश्य बिभर्त्य् अव्यय ईश्वरः ॥१७॥
यस्मात् क्षरम् अतीतो’हम् अक्षराद् अपि चोत्तमः ।
अतो’स्मि लोके वेदे च प्रथितः पुरुषोत्तमः ॥१८॥
यो माम् एवम् असंमूढो जानाति पुरुषोत्तमम् ।
स सर्व-विद् भजति मां सर्व-भावेन भारत ॥१९॥
इति गुह्यतमं शास्त्रम् इदम् उक्तं मयानघ ।
एतद् बुद्ध्वा बुद्धिमान् स्यात् कृत-कृत्यश् च भारत ॥२०॥

इति श्री-महाभारते शत-साहस्रयां संहितायां वैयासिक्यां भीष्म-पर्वणि
श्रीमद्-भगवद्-गीतासूपनिषत्सु ब्रह्म-विद्यायां योग-शास्त्रे श्री-कृष्णार्जुन-संवादे
पुरुषोत्तम-योगो नाम पञ्चदशो’ध्यायः ॥
—ओ)०(ओ—

(१६)
अथ षोडशो’ध्यायः
दैवासुर-सम्पद्-विभाग-योगः

श्री-भगवान् उवाच
अभयं सत्त्व-संशुद्धिर् ज्ञान-योग-व्यवस्थितिः ।
दानं दमश् च यज्ञश् च स्वाध्यायस् तप आर्जवम् ॥१॥
अहिंसा सत्यम् अक्रोधस् त्यागः शान्तिर् अपैशुनम् ।
दया भूतेष्व् अलोलुप्त्वं मार्दवं ह्रीर् अचापलम् ॥२॥
तेजः क्षमा धृतिः शौचम् अद्रोहो नातिमानिता ।
भवन्ति संपदं दैवीम् अभिजातस्य भारत ॥३॥
दम्भो दर्पो’तिमानश् च क्रोधः पारुष्यम् एव च ।
अज्ञानं चाभिजातस्य पार्थ संपदम् आसुरीम् ॥४॥
दैवी संपद् विमोक्षाय निबन्धायासुरी मता ।
मा शुचः संपदं दैवीम् अभिजातो’सि पाण्डव ॥५॥
द्वौ भूत-सर्गौ लोके’स्मिन् दैव आसुर एव च ।
दैवो विस्तरशः प्रोक्त आसुरं पार्थ मे शृणु ॥६॥
प्रवृत्तिं च निवृत्तिं च जना न विदुर् आसुराः ।
न शौचं नापि चाचारो न सत्यं तेषु विद्यते ॥७॥
असत्यम् अप्रतिष्ठं ते जगद् आहुर् अनीश्वरम् ।
अपरस्पर-संभूतं किम् अन्यत् काम-हैतुकम् ॥८॥
एतां दृष्टिम् अवष्टभ्य नष्टात्मानो’ल्प-बुद्धयः ।
प्रभवन्त्य् उग्र-कर्माणः क्षयाय जगतो’हिताः ॥९॥
कामम् आश्रित्य दुष्पूरं दम्भ-मान-मदान्विताः ।
मोहाद् गृहीत्वासद्-ग्राहान् प्रवर्तन्ते’शुचिव्रताः ॥१०॥
चिन्ताम् अपरिमेयां च प्रलयान्ताम् उपाश्रिताः ।
कामोपभोग-परमा एतावद् इति निश्चिताः ॥११॥
आशा-पाश-शतैर् बद्धाः काम-क्रोध-परायणाः ।
ईहन्ते काम-भोगार्थम् अन्यायेनार्थ-संचयान् ॥१२॥
इदम् अद्य मया लब्धम् इदं प्राप्स्ये मनोरथम् ।
इदम् अस्तीदम् अपि मे भविष्यति पुनर् धनम् ॥१३॥
असौ मया हतः शत्रुर् हनिष्ये चापरान् अपि ।
ईश्वरो’हम् अहं भोगी सिद्धो’हं बलवान् सुखी ॥१४॥
आढ्यो’भिजनवान् अस्मि को’न्यो’स्ति सदृशो मया ।
यक्ष्ये दास्यामि मोदिष्य इत्य् अज्ञान-विमोहिताः ॥१५॥
अनेक-चित्त-विभ्रान्ता मोह-जाल-समावृताः ।
प्रसक्ताः काम-भोगेषु पतन्ति नरके’शुचौ ॥१६॥
आत्म-संभाविताः स्तब्धा धन-मान-मदान्विताः ।
यजन्ते नाम-यज्ञैस् ते दम्भेनाविधि-पूर्वकम् ॥१७॥
अहंकारं बलं दर्पं कामं क्रोधं च संश्रिताः ।
माम् आत्म-पर-देहेषु प्रद्विषन्तो’भ्यसूयकाः ॥१८॥
तान् अहं द्विषतः क्रूरान् संसारेषु नराधमान् ।
क्षिपाम्य् अजस्रम् अशुभान् आसुरीष्व् एव योनिषु ॥१९॥
आसुरीं योनिम् आपन्ना मूढा जन्मनि जन्मनि ।
माम् अप्राप्यैव कौन्तेय ततो यान्त्य् अधमां गतिम् ॥२०॥
त्रि-विधं नरकस्येदं द्वारं नाशनम् आत्मनः ।
कामः क्रोधस् तथा लोभस् तस्माद् एतत् त्रयं त्यजेत् ॥२१॥
एतैर् विमुक्तः कौन्तेय तमो-द्वारैस् त्रिभिर् नरः ।
आचरत्य् आत्मनः श्रेयस् ततो याति परां गतिम् ॥२२॥
यः शास्त्र-विधिम् उत्सृज्य वर्तते काम-कारतः ।
न स सिद्धिम् अवाप्नोति न सुखं न परां गतिम् ॥२३॥
तस्माच् छास्त्रं प्रमाणं ते कार्याकार्य-व्यवस्थितौ ।
ज्ञात्वा शास्त्र-विधानोक्तं कर्म कर्तुम् इहार्हसि ॥२४॥

इति श्री-महाभारते शत-साहस्रयां संहितायां वैयासिक्यां भीष्म-पर्वणि
श्रीमद्-भगवद्-गीतासूपनिषत्सु ब्रह्म-विद्यायां योग-शास्त्रे श्री-कृष्णार्जुन-संवादे
दैवासुर-सम्पद्-विभाग-योगो नाम षोडशो’ध्यायः ॥
—ओ)०(ओ—

(१७)
अथ सप्तदशो’ध्यायः
श्रद्धा-त्रय-विभाग-योगः

अर्जुन उवाच
ये शास्त्र-विधिम् उत्सृज्य यजन्ते श्रद्धयान्विताः ।
तेषां निष्ठा तु का कृष्ण सत्त्वम् आहो रजस् तमः ॥१॥

श्री-भगवान् उवाच
त्रि-विधा भवति श्रद्धा देहिनां सा स्वभावजा ।
सात्त्विकी राजसी चैव तामसी चेति तां शृणु ॥२॥
सत्त्वानुरूपा सर्वस्य श्रद्धा भवति भारत ।
श्रद्धामयो’यं पुरुषो यो यच्-छ्रद्धः स एव सः ॥३॥
यजन्ते सात्त्विका देवान् यक्ष-रक्षांसि राजसाः ।
प्रेतान् भूत-गणांश् चान्ये यजन्ते तामसा जनाः ॥४॥
अशास्त्र-विहितं घोरं तप्यन्ते ये तपो जनाः ।
दम्भाहंकार-संयुक्ताः काम-राग-बलान्विताः ॥५॥
कर्शयन्तः शरीरस्थं भूत-ग्रामम् अचेतसः ।
मां चैवान्तः-शरीर-स्थं तान् विद्ध्य् आसुर-निश्चयान् ॥६॥
आहारस् त्व् अपि सर्वस्य त्रि-विधो भवति प्रियः ।
यज्ञस् तपस् तथा दानं तेषां भेदम् इमं शृणु ॥७॥
आयुः-सत्त्व-बलारोग्य-सुख-प्रीति-विवर्धनाः ।
रस्याः स्निग्धाः स्थिरा हृद्या आहाराः सात्त्विक-प्रियाः ॥८॥
कट्व्-अम्ल-लवणात्युष्ण-तीक्ष्ण-रूक्ष-विदाहिनः ।
आहारा राजसस्येष्टा दुःख-शोकामय-प्रदाः ॥९॥
यातयामं गत-रसं पूति पर्युषितं च यत् ।
उच्छिष्टम् अपि चामेध्यं भोजनं तामस-प्रियम् ॥१०॥
अफलाकाङ्क्षिभिर् यज्ञो विधि-दृष्टो य इज्यते ।
यष्टव्यम् एवेति मनः समाधाय स सात्त्विकः ॥११॥
अभिसन्धाय तु फलं दम्भार्थम् अपि चैव यत् ।
इज्यते भरत-श्रेष्ठ तं यज्ञं विद्धि राजसम् ॥१२॥
विधि-हीनम् असृष्टान्नं मन्त्र-हीनम् अदक्षिणम् ।
श्रद्धा-विरहितं यज्ञं तामसं परिचक्षते ॥१३॥
देव-द्विज-गुरु-प्राज्ञ-पूजनं शौचम् आर्जवम् ।
ब्रह्मचर्यम् अहिंसा च शारीरं तप उच्यते ॥१४॥
अनुद्वेग-करं वाक्यं सत्यं प्रिय-हितं च यत् ।
स्वाध्यायाभ्यसनं चैव वाङ्-मयं तप उच्यते ॥१५॥
मनः-प्रसादः सौम्यत्वं मौनम् आत्म-विनिग्रहः ।
भाव-संशुद्धिर् इत्य् एतत् तपो मानसम् उच्यते ॥१६॥
श्रद्धया परया तप्तं तपस् तत् त्रि-विधं नरैः ।
अफलाकाङ्क्षिभिर् युक्तैः सात्त्विकं परिचक्षते ॥१७॥
सत्कार-मान-पूजार्थं तपो दम्भेन चैव यत् ।
क्रियते तद् इह प्रोक्तं राजसं चलम् अध्रुवम् ॥१८॥
मूढ-ग्राहेणात्मनो यत् पीडया क्रियते तपः ।
परस्योत्सादनार्थं वा तत् तामसम् उदाहृतम् ॥१९॥
दातव्यम् इति यद् दानं दीयते’नुपकारिणे ।
देशे काले च पात्रे च तद् दानं सात्त्विकं स्मृतम् ॥२०॥
यत् तु प्रत्युपकारार्थं फलम् उद्दिश्य वा पुनः ।
दीयते च परिक्लिष्टं तद् दानं राजसं स्मृतम् ॥२१॥
अदेश-काले यद् दानम् अपात्रेभ्यश् च दीयते ।
असत्कृतम् अवज्ञातं तत् तामसम् उदाहृतम् ॥२२॥
ओं तत् सद् इति निर्देशो ब्रह्मणस् त्रि-विधः स्मृतः ।
ब्राह्मणास् तेन वेदाश् च यज्ञाश् च विहिताः पुरा ॥२३॥
तस्माद् ओम् इत्य् उदाहृत्य यज्ञ-दान-तपः-क्रियाः ।
प्रवर्तन्ते विधानोक्ताः सततं ब्रह्म-वादिनाम् ॥२४॥
तद् इत्य् अनभिसन्धाय फलं यज्ञ-तपः-क्रियाः ।
दान-क्रियाश् च विविधाः क्रियन्ते मोक्ष-काङ्क्षिभिः ॥२५॥
सद्-भावे साधु-भावे च सद् इत्य् एतत् प्रयुज्यते ।
प्रशस्ते कर्मणि तथा सच्-छब्दः पार्थ युज्यते ॥२६॥
यज्ञे तपसि दाने च स्थितिः सद् इति चोच्यते ।
कर्म चैव तद्-अर्थीयं सद् इत्य् एवाभिधीयते ॥२७॥
अश्रद्धया हुतं दत्तं तपस् तप्तं कृतं च यत् ।
असद् इत्य् उच्यते पार्थ न च तत् प्रेत्य नो इह ॥२८॥

इति श्री-महाभारते शत-साहस्रयां संहितायां वैयासिक्यां भीष्म-पर्वणि
श्रीमद्-भगवद्-गीतासूपनिषत्सु ब्रह्म-विद्यायां योग-शास्त्रे श्री-कृष्णार्जुन-संवादे
श्रद्धा-त्रय-विभाग-योगो नाम सप्तदशो’ध्यायः ॥

(१८)
अथाष्टदशमो’ध्यायः
मोक्ष-सन्न्यास-योगः

अर्जुन उवाच
संन्यासस्य महा-बाहो तत्त्वम् इच्छामि वेदितुम् ।
त्यागस्य च हृषीकेश पृथक् केशि-निषूदन ॥१॥
श्री-भगवान् उवाच ।
काम्यानां कर्मणां न्यासं संन्यासं कवयो विदुः ।
सर्व-कर्म-फल-त्यागं प्राहुस् त्यागं विचक्षणाः ॥२॥
त्याज्यं दोषवद् इत्य् एके कर्म प्राहुर् मनीषिणः ।
यज्ञ-दान-तपः-कर्म न त्याज्यम् इति चापरे ॥३॥
निश्चयं शृणु मे तत्र त्यागे भरत-सत्तम ।
त्यागो हि पुरुष-व्याघ्र त्रि-विधः संप्रकीर्तितः ॥४॥
यज्ञ-दान-तपः-कर्म न त्याज्यं कार्यम् एव तत् ।
यज्ञो दानं तपश् चैव पावनानि मनीषिणाम् ॥५॥
एतान्य् अपि तु कर्माणि सङ्गं त्यक्त्वा फलानि च ।
कर्तव्यानीति मे पार्थ निश्चितं मतम् उत्तमम् ॥६॥
नियतस्य तु संन्यासः कर्मणो नोपपद्यते ।
मोहात् तस्य परित्यागस् तामसः परिकीर्तितः ॥७॥
दुःखम् इत्य् एव यत् कर्म काय-क्लेश-भयात् त्यजेत् ।
स कृत्वा राजसं त्यागं नैव त्याग-फलं लभेत् ॥८॥
कार्यम् इत्य् एव यत् कर्म नियतं क्रियते’र्जुन ।
सङ्गं त्यक्त्वा फलं चैव स त्यागः सात्त्विको मतः ॥९॥
न द्वेष्ट्य् अकुशलं कर्म कुशले नानुषज्जते ।
त्यागी सत्त्व-समाविष्टो मेधावी छिन्न-संशयः ॥१०॥
न हि देह-भृता शक्यं त्यक्तुं कर्माण्य् अशेषतः ।
यस् तु कर्म-फल-त्यागी स त्यागीत्य् अभिधीयते ॥११॥
अनिष्टम् इष्टं मिश्रं च त्रि-विधं कर्मणः फलम् ।
भवत्य् अत्यागिनां प्रेत्य न तु संन्यासिनां क्वचित् ॥१२॥
पञ्चैतानि महा-बाहो कारणानि निबोध मे ।
सांख्ये कृतान्ते प्रोक्तानि सिद्धये सर्व-कर्मणाम् ॥१३॥
अधिष्ठानं तथा कर्ता करणं च पृथग्-विधम् ।
विविधाश् च पृथक्-चेष्टा दैवं चैवात्र पञ्चमम् ॥१४॥
शरीर-वाङ्-मनोभिर् यत् कर्म प्रारभते नरः ।
न्याय्यं वा विपरीतं वा पञ्चैते तस्य हेतवः ॥१५॥
तत्रैवं सति कर्तारम् आत्मानं केवलं तु यः ।
पश्यत्य् अकृत-बुद्धित्वान् न स पश्यति दुर्मतिः ॥१६॥
यस्य नाहंकृतो भावो बुद्धिर् यस्य न लिप्यते ।
हत्वापि स इमान् लोकान् न हन्ति न निबध्यते ॥१७॥
ज्ञानं ज्ञेयं परिज्ञाता त्रि-विधा कर्म-चोदना ।
करणं कर्म कर्तेति त्रि-विधः कर्म-संग्रहः ॥१८॥
ज्ञानं कर्म च कर्ता च त्रिधैव गुण-भेदतः ।
प्रोच्यते गुण-संख्याने यथावच् छृणु तान्य् अपि ॥१९॥
सर्व-भूतेषु येनैकं भावम् अव्ययम् ईक्षते ।
अविभक्तं विभक्तेषु तज् ज्ञानं विद्धि सात्त्विकम् ॥२०॥
पृथक्त्वेन तु यज् ज्ञानं नानाभावान् पृथग्-विधान् ।
वेत्ति सर्वेषु भूतेषु तज् ज्ञानं विद्धि राजसम् ॥२१॥
यत् तु कृत्स्नवद् एकस्मिन् कार्ये सक्तम् अहैतुकम् ।
अतत्त्वार्थवद् अल्पं च तत् तामसम् उदाहृतम् ॥२२॥
नियतं सङ्ग-रहितम् अराग-द्वेषतः कृतम् ।
अफल-प्रेप्सुना कर्म यत् तत् सात्त्विकम् उच्यते ॥२३॥
यत् तु कामेप्सुना कर्म साहंकारेण वा पुनः ।
क्रियते बहुलायासं तद् राजसम् उदाहृतम् ॥२४॥
अनुबन्धं क्षयं हिंसाम् अनपेक्ष्य च पौरुषम् ।
मोहाद् आरभ्यते कर्म यत् तत् तामसम् उच्यते ॥२५॥
मुक्त-सङ्गो’नहं-वादी धृत्य्-उत्साह-समन्वितः ।
सिद्ध्य्-असिद्ध्योर् निर्विकारः कर्ता सात्त्विक उच्यते ॥२६॥
रागी कर्म-फल-प्रेप्सुर् लुब्धो हिंसात्मको’शुचिः ।
हर्ष-शोकान्वितः कर्ता राजसः परिकीर्तितः ॥२७॥
अयुक्तः प्राकृतः स्तब्धः शठो नैकृतिको’लसः ।
विषादी दीर्घ-सूत्री च कर्ता तामस उच्यते ॥२८॥
बुद्धेर् भेदं धृतेश् चैव गुणतस् त्रि-विधं शृणु ।
प्रोच्यमानम् अशेषेण पृथक्त्वेन धनंजय ॥२९॥
प्रवृत्तिं च निवृत्तिं च कार्याकार्ये भयाभये ।
बन्धं मोक्षं च या वेत्ति बुद्धिः सा पार्थ सात्त्विकी ॥३०॥
यया धर्मम् अधर्मं च कार्यं चाकार्यम् एव च ।
अयथावत् प्रजानाति बुद्धिः सा पार्थ राजसी ॥३१॥
अधर्मं धर्मम् इति या मन्यते तमसावृता ।
सर्वार्थान् विपरीतांश् च बुद्धिः सा पार्थ तामसी ॥३२॥
धृत्या यया धारयते मनः-प्राणेन्द्रिय-क्रियाः ।
योगेनाव्यभिचारिण्या धृतिः सा पार्थ सात्त्विकी ॥३३॥
यया तु धर्म-कामार्थान् धृत्या धारयते’र्जुन ।
प्रसङ्गेन फलाकाङ्क्षी धृतिः सा पार्थ राजसी ॥३४॥
यया स्वप्नं भयं शोकं विषादं मदम् एव च ।
न विमुञ्चति दुर्मेधा धृतिः सा पार्थ तामसी ॥३५॥
सुखं त्व् इदानीं त्रि-विधं शृणु मे भरतर्षभ ।
अभ्यासाद् रमते यत्र दुःखान्तं च निगच्छति ॥३६॥
यत् तदग्रे विषम् इव परिणामे’मृतोपमम् ।
तत् सुखं सात्त्विकं प्रोक्तम् आत्म-बुद्धि-प्रसाद-जम् ॥३७॥
विषयेन्द्रिय-संयोगाद् यत् तदग्रे’मृतोपमम् ।
परिणामे विषम् इव तत् सुखं राजसं स्मृतम् ॥३८॥
यद् अग्रे चानुबन्धे च सुखं मोहनम् आत्मनः ।
निद्रालस्य-प्रमादोत्थं तत् तामसम् उदाहृतम् ॥३९॥
न तद् अस्ति पृथिव्यां वा दिवि देवेषु वा पुनः ।
सत्त्वं प्रकृति-जैर् मुक्तं यद् एभिः स्यात् त्रिभिर् गुणैः ॥४०॥
ब्राह्मण-क्षत्रिय-विशां शूद्राणां च परन्तप ।
कर्माणि प्रविभक्तानि स्वभाव-प्रभवैर् गुणैः ॥४१॥
शमो दमस् तपः शौचं क्षान्तिर् आर्जवम् एव च ।
ज्ञानं विज्ञानम् आस्तिक्यं ब्रह्म-कर्म स्वभावजम् ॥४२॥
शौर्यं तेजो धृतिर् दाक्ष्यं युद्धे चाप्य् अपलायनम् ।
दानम् ईश्वर-भावश् च क्षात्रं कर्म स्वभाव-जम् ॥४३॥
कृषि-गो-रक्ष्य-वाणिज्यं वैश्य-कर्म स्वभाव-जम् ।
परिचर्यात्मकं कर्म शूद्रस्यापि स्वभाव-जम् ॥४४॥
स्वे स्वे कर्मण्य् अभिरतः संसिद्धिं लभते नरः ।
स्व-कर्म-निरतः सिद्धिं यथा विन्दति तच् छृणु ॥४५॥
यतः प्रवृत्तिर् भूतानां येन सर्वम् इदं ततम् ।
स्व-कर्मणा तम् अभ्यर्च्य सिद्धिं विन्दति मानवः ॥४६॥
श्रेयान् स्व-धर्मो विगुणः पर-धर्मात् स्वनुष्ठितात् ।
स्वभाव-नियतं कर्म कुर्वन् नाप्नोति किल्बिषम् ॥४७॥
सहजं कर्म कौन्तेय स-दोषम् अपि न त्यजेत् ।
सर्वारम्भा हि दोषेण धूमेनाग्निर् इवावृताः ॥४८॥
असक्त-बुद्धिः सर्वत्र जितात्मा विगत-स्पृहः ।
नैष्कर्म्य-सिद्धिं परमां संन्यासेनाधिगच्छति ॥४९॥
सिद्धिं प्राप्तो यथा ब्रह्म तथाप्नोति निबोध मे ।
समासेनैव कौन्तेय निष्ठा ज्ञानस्य या परा ॥५०॥
बुद्ध्या विशुद्धया युक्तो धृत्यात्मानं नियम्य च ।
शब्दादीन् विषयांस् त्यक्त्वा राग-द्वेषौ व्युदस्य च ॥५१॥
विविक्त-सेवी लघ्व्-आशी यत-वाक्-काय-मानसः ।
ध्यान-योग-परो नित्यं वैराग्यं समुपाश्रितः ॥५२॥
अहंकारं बलं दर्पं कामं क्रोधं परिग्रहम् ।
विमुच्य निर्ममः शान्तो ब्रह्म-भूयाय कल्पते ॥५३॥
ब्रह्म-भूतः प्रसन्नात्मा न शोचति न काङ्क्षति ।
समः सर्वेषु भूतेषु मद्-भक्तिं लभते पराम् ॥५४॥
भक्त्या माम् अभिजानाति यावान् यश् चास्मि तत्त्वतः ।
ततो मां तत्त्वतो ज्ञात्वा विशते तद्-अनन्तरम् ॥५५॥
सर्व-कर्माण्य् अपि सदा कुर्वाणो मद्-व्यपाश्रयः ।
मत्-प्रसादाद् अवाप्नोति शाश्वतं पदम् अव्ययम् ॥५६॥
चेतसा सर्व-कर्माणि मयि संन्यस्य मत्-परः ।
बुद्धि-योगम् उपाश्रित्य मच्-चित्तः सततं भव ॥५७॥
मच्-चित्तः सर्व-दुर्गाणि मत्-प्रसादात् तरिष्यसि ।
अथ चेत् त्वम् अहंकारान् न श्रोष्यसि विनङ्क्ष्यसि ॥५८॥
यद् अहंकारम् आश्रित्य न योत्स्य इति मन्यसे ।
मिथ्यैष व्यवसायस् ते प्रकृतिस् त्वां नियोक्ष्यति ॥५९॥
स्वभाव-जेन कौन्तेय निबद्धः स्वेन कर्मणा ।
कर्तुं नेच्छसि यन् मोहात् करिष्यस्य् अवशो’पि तत् ॥६०॥
ईश्वरः सर्व-भूतानां हृद्-देशे’र्जुन तिष्ठति ।
भ्रामयन् सर्व-भूतानि यन्त्रारूढानि मायया ॥६१॥
तम् एव शरणं गच्छ सर्व-भावेन भारत ।
तत्-प्रसादात् परां शान्तिं स्थानं प्राप्स्यसि शाश्वतम् ॥६२॥
इति ते ज्ञानम् आख्यातं गुह्याद् गुह्यतरं मया ।
विमृश्यैतद् अशेषेण यथेच्छसि तथा कुरु ॥६३॥
सर्व-गुह्यतमं भूयः शृणु मे परमं वचः ।
इष्टो’सि मे दृढम् इति ततो वक्ष्यामि ते हितम् ॥६४॥
मन्-मना भव मद्-भक्तो मद्-याजी मां नमस्कुरु ।
माम् एवैष्यसि सत्यं ते प्रतिजाने प्रियो’सि मे ॥६५॥
सर्व-धर्मान् परित्यज्य माम् एकं शरणं व्रज ।
अहं त्वा सर्व-पापेभ्यो मोक्षयिष्यामि मा शुचः ॥६६॥
इदं ते नातपस्काय नाभक्ताय कदाचन ।
न चाशुश्रूषवे वाच्यं न च मां यो’भ्यसूयति ॥६७॥
य इदं परमं गुह्यं मद्-भक्तेष्व् अभिधास्यति ।
भक्तिं मयि परां कृत्वा माम् एवैष्यत्य् असंशयः ॥६८॥
न च तस्मान् मनुष्येषु कश्चिन् मे प्रिय-कृत्तमः ।
भविता न च मे तस्माद् अन्यः प्रियतरो भुवि ॥६९॥
अध्येष्यते च य इमं धर्म्यं संवादम् आवयोः ।
ज्ञान-यज्ञेन तेनाहम् इष्टः स्याम् इति मे मतिः ॥७०॥
श्रद्धावान् अनसूयश् च शृणुयाद् अपि यो नरः ।
सो’पि मुक्तः शुभान् लोकान् प्राप्नुयात् पुण्य-कर्मणाम् ॥७१॥
कच्चिद् एतच् छ्रुतं पार्थ त्वयैकाग्रेण चेतसा ।
कच्चिद् अज्ञान-संमोहः प्रनष्टस् ते धनंजय ॥७२॥

अर्जुन उवाच
नष्टो मोहः स्मृतिर् लब्धा त्वत्-प्रसादान् मयाच्युत ।
स्थितो’स्मि गत-सन्देहः करिष्ये वचनं तव ॥७३॥

संजय उवाच
इत्य् अहं वासुदेवस्य पार्थस्य च महात्मनः ।
संवादम् इमम् अश्रौषम् अद्भुतं रोमहर्षणम् ॥७४॥
व्यास-प्रसादाच् छ्रुतवान् एतद् गुह्यम् अहं परम् ।
योगं योगेश्वरात् कृष्णात् साक्षात् कथयतः स्वयम् ॥७५॥
राजन् संस्मृत्य संस्मृत्य संवादम् इमम् अद्भुतम् ।
केशवार्जुनयोः पुण्यं हृष्यामि च मुहुर् मुहुः ॥७६॥
तच् च संस्मृत्य संस्मृत्य रूपम् अत्यद्भुतं हरेः ।
विस्मयो मे महान् राजन् हृष्यामि च पुनः पुनः ॥७७॥
यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः ।
तत्र श्रीर् विजयो भूतिर् ध्रुवा नीतिर् मतिर् मम ॥७८॥

इति श्री-महाभारते शत-साहस्रयां संहितायां वैयासिक्यां भीष्म-पर्वणि
श्रीमद्-भगवद्-गीतासूपनिषत्सु ब्रह्म-विद्यायां योग-शास्त्रे श्री-कृष्णार्जुन-संवादे
मोक्ष-संन्यास-योगो नामाष्टादशो’ध्यायः ॥१८॥

इति श्रीमद्-भगवद्-गीता समाप्ता

अथ गीता-माहात्म्यम्

गीता-शास्त्रम् इदं पुण्यं यः पठेत् प्रयतः पुमान् ।
विष्णोः पदम् अवाप्नोति भय-शोकादि-वर्जितः ॥१॥
गीताध्ययन-शीलस्य प्राणायाम-परस्य च ।
नैव सन्ति हि पापानि पूर्व-जन्म-कृतानि ॥२॥
मल-निर्मोचनं पुंसां जल-स्नानं दिने दिने ।
सकृद्-गीताम्भसि स्नानं संसार-मल-नाशनम् ॥३॥
गीता सुगीता कर्तव्या किम् अन्यैः शास्त्र-विस्तरैः ।
या स्वयं पद्मनाभस्य मुख-पद्माद् विनिःसृता ॥४॥
भारतामृत-सर्वस्वं विष्णोर् वक्त्राद् विनिःसृतम् ।
गीता-गङ्गोदकं पीत्वा पुनर्-जन्म न विद्यते ॥५॥
सर्वोपनिषदो गावो दोग्धा गोपाल-नन्दनः ।
पार्थो वत्सः सुधीर् भोक्ता दुग्धं गीतामृतं महत् ॥६॥

एकं शास्त्रं देवकी-पुत्र-गीतम्
एको देवो देवकी-पुत्र एव ।
एको मन्त्रस् तस्य नामानि यानि
कर्माप्य् एकं तस्य देवस्य सेवा ॥७॥

इति गीता-माहात्म्यम् ।

No comments: